एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स च प्रस्तारे वक्रः स्थाप्य लघुलक्षणमाह । जेयोऽन्यो मातृको लृजुः । अनुस्वरादिरहितो अन्यो मातृको एकमात्रो वर्णो लघुर्भवति । स च प्रस्तारे ऋजुः सरलः । ९

युक्तपराश्च य इत्यनेन प्राप्ते गुरुत्वे अपवादमाह । पदादाविह" वर्णस्य संयोगः क्रमसंजिकः | पुरःस्थितेन' तेन स्याल्लघुताऽपि क्वचिद्रूरोः ॥ १०

विभक्त्यंतं पदं तस्य पदस्यादौ वर्तमानो यो वर्णस्तस्य संयोगः । स इह शास्त्रे क्रमसंजो जेयः । तेन क्रमेण पुरोवर्तिना प्राक्पदांते वर्तमानस्य प्रासगुरुभावस्यापि लघुता स्यात्‌ । क्वचिल्लक्षानुरोधेन । ननु क एषः" क्रमो नाम संयोग उच्यते । पूर्वाचार्याणां पिंगलनागप्रभृतीनां कालिदासादीनां च कवीनां समयः" परिगृहीतः । सयोगः क्रमसयोगः । १०

तत्र ग्रसंयोगेन" यथा । इदमस्योदाहरणम्‌ । तरुणं सर्षपशाकं नवौदनं पिच्छलानि च दधीनि | अल्पव्ययेन सुंदरि ग्राम्यजनो मिष्टमश्नाति" ॥ ११

हसंयोगेन यथा ।

तव हियापहिया मम हीरभूत्‌ शशिगृहेऽपि हृतं न धृता ततः । वहलभ्रामरमेषकतामसम्‌ मम प्रिये क्व स येष्यति तत्पुनः ॥ इति निद्रव्यो हियमेति हीपरिगतः प्रभ्रश्यते तेजसः।*

निस्तेजः'° परिभूयते परिभवान्निर्वेदमागच्छति ।

निर्विण्णः शुचमेति शोकविवशो बुद॒ध्याः” परिभ्रश्यते


+ शिशुपालवधम्‌ १.१ त्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसब्मनि । वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥

2 पाठे पादादाविह । टीकायां पदादाविह ।

° पाठे पुरस्थितेन ।

+ पाठे एष ।

5 पाठे समय ।

"° पाठे ग्रसंयोगेण ।

१ पाठे मिष्टमुश्नाति ।

४ पाठे तेजसा ।

"° पाठे निस्तेजाः ।

¬” पाठे बुदध्या ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४&oldid=371371" इत्यस्माद् प्रतिप्राप्तम्