एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रवर्त्म गदितं तु रनभसैः । ५०

यत्र रगणनगणभभगणसगणा भवन्ति तदरृत्तं चन्द्रवर्त्म गदितम्‌ । यथा । चक्षुषी परिविमृश्य करयुगात्‌ क्रान्तहर्यपरिशोभितवदना । चन्द्रवर्त्म कथयेत्यतिविवशा कांतमेवमवदन्निशि वनिता ॥ ५०

जतौ तु वंशस्थमुदीरितं जरौ । ५१

यत्र जगणतगणजगणरगणास्तदृत्त वंशस्थं नाम | यथा । स्ववेश्मवंशस्थमुदीक्ष्य वायसं प्रियागमासंशिनमुत्तमेगितैः 157 | जगाद काचिन्मुदिता समागते प्रिये प्रदास्यामि तवेप्सितं खग ॥ ५९१

स्यादिन्द्रवंशा ततजैः रसंयुतैः । ५२

यत्र द्वौ तगणौ जगणरगणौ!° तदृततं इन्द्रवंशा नाम यथा । आदीन्द्रवंशादिवमस्तभूरुहप्रच्छादितानेकगुहा गृहोऽपि सन्‌ । धाराधिनाथस्य भयेन विद्रुतान्‌ भूगोपुरिष्टान्न भवामि नेश्वरः ॥ ५२

इह तोटकमम्बुधिसैः प्रथितम्‌ । ५३

यत्र चत्वारि सगणास्तदृत्तं तोटकं नाम । यथा । त्यज मानममानमनंतगुणं कुरु वाक्यमिदं परिणामहितम्‌ । त्वयि" तोटकजायतनेत्रयुगे त्वरितं दयितांतिकमिन्दुमुखि ॥ ५३

द्रुतविलम्बितमाह नभौ भरौ । ५४

नगणभ्रगणौ भगणरगणौ यत्र तद द्रूतविलम्ितं नाम | यथा | द्रूतविलम्बितगेन तवारिणा क्वचिदपि स्थिरभावमविन्टता । गुरुनितम्बभरालसगामिनी प्रतिपदं स्ववधूरनृप निन्यते ॥ ५४


^" पाठे प्रियागमासंशिनमुत्तमैगतैः । > पाठे जगणरगणा ।

>१ पाठे त्वमि ।

पाठे स्ववधूर्नृपतिर्निन्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४०&oldid=371606" इत्यस्माद् प्रतिप्राप्तम्