एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वसुयुगविरतिर्नौ म्यौ पुटोऽयम्‌ । ५५

दरौ नगणौ मगणयगणौ यत्र तदृत्तं पुटौ नाम । वसुभिरष्टभिर्युगैश्वतुरिर्यतिः । अपि चरणनतोऽहं तत्प्रसीद त्यज सरसिजनेत्रे मौनमूद्राम्‌ । वचनममृतकल्पं श्रोतुकामा श्रवणपुटनिपेयं सर्वदा ते ॥ %५

प्रमुदितवदना भवेन्नौ ररौ । ५६

टौ नगणौ द्रौ रगणौ यत्र तदृतं प्रमुदितवदना नाम | यथा | गुरुकुचयुगलां विशंलक्षणां विकटकटितटां मनोजां सदा । विविधसुरतिकेलिदक्षामहं प्रमुदितवदनां स्मरामि प्रियाम्‌ ॥ ५६

चतुर्जगणं वद मौक्तिकदाम । ५७"

नयसहितौ न्यौ कुसुमविचित्रा । ५८

नगणयगणौ पुनर्नगणयगणौ यत्र तदृततं कुसुमविचित्रा नाम । षड़भिर्यतिरित्युपदेशः । यथा |

परिहृतरोषा कृतबहूवेषा सह निजभर्तौ तरुणि वसंते ।

प्रमुदितपुंस्कोकिल इव रम्यां व्रज वनराजिं कुसुमविचित्राम्‌ ॥ ५८

रसेैर्जसजसा जलोद्धतगतिः । ५९

यत्र जगणसगणजगणा सगणश्च तदत जलोद्धतगतिनाम । यथा । अतीत्य सरितो जलोद्तगतीरनेकगहना कुलानपि गिरीन्‌ । समुद्रतरमाश्रिता रिपुनृपाः सुखं न निशि शेरते तव भयात्‌ ॥ ५९

भजंगप्रयातं भवेयैश्वतुर्भिः | ६०

[-,

चत्वारो यगणा यत्र तद््त भुजंगप्रयातं नाम । यथा । विटग्धांगनालोचनानन्दकारी सखि स्वेच्छया वीक्षितुं प्राणनाथः । मया नैव त्रन्धो हत ग्राममार्गे भरुजंगप्रयातानुकारिण्यमुष्णिग्‌ (?)॥ ६०

रेश्वतुरभिर्युता स्रग्विणी संमता । ६१


161 पाठे अस्य श्लोकस्य टीका नास्ति ।

41

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४१&oldid=371607" इत्यस्माद् प्रतिप्राप्तम्