एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चत्वारो रगणा यस्य पादे तदृत्त स्रग्विणी नाम । यथा | पद्मपत्रायताक्षी शशाकानना कुंकुमोदरतितांमी घयनोच्चस्तनी | अगहारैरनेकप्रकारैरयुता नृत्यति स्री सखे स्रग्विणी सुंदरा ॥ ६१

भुवि भवेन्नभजरैः प्रियंवदा । ६२

नगणभ्रगणजगणरगणा यत्र तदृतत प्रियंवदा नाम । यथा | गुरूपयोधरवती सुमध्यमा विपुलपुण्यनिचयैः स्ववेश्मनि | अवति पार्वणशशांकसुंदराननवती प्रियतमा प्रियवदा ॥ ६२

त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैः । ६३

तगणयगणतगणयगणा यत्र तदृत्तं मणिमाला नाम । षड़भिर्यतिः । यथा । मातः सुरसिन्धो त्रैलोक्यपवित्रे पश्यामि कदा ते पापापहमम्भः | चंचन्मणिमालालकारमणीनां त्यक्त्वा वनितानां संगं विषतुल्यम्‌ ॥ ६३

धीरैरभाणि लिता तभौ जरौ । ६४

यत्र तगणभभरगणजगणरगणास्तदृतत लविता नाम । यथा | पीनोन्नतस्तनभरोपरिस्फुरद्दारावलीसुभगमायतेक्षणा । नृत्यत्यसौ सुललितं हि नूपुराध्वानप्रबोधितमनोभवा वधूः ॥ ६४

प्रमिताक्षरा सजससैरुदिता । ६५

सगणजगणौ सगणौ यत्र तदृतं प्रमिताक्षरा नाम । यथा | चरणानति गतवति प्रसभं दयिते नितांतसुभगे सुभगे | परुषाणि संत्यज वचांसि सयि प्रमिताक्षरा भव शशांकमुखि ॥ ६५

ननभरसहिताऽभिहितोज्ज्वला । ६६

दौ नगणौ भगणरगणौ च यत्र तदृतत उज्ज्वला नाम । यथा | इह शरदि भवन्त्युकाशया (?) विमलतरशशांककरोज्ज्वला । विदधति गमनं विजयार्थिनः प्रतिदिवसमवनीपतयः स्वयम्‌ ॥ ६६


५ पाठे वधूम्‌ ।

42

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४२&oldid=371608" इत्यस्माद् प्रतिप्राप्तम्