एतत् पृष्ठम् अपरिष्कृतम् अस्ति

43

पञ्चाश्चैश्छिन्ना वैश्वदेवी ममौ यौ । ६७

टौ मगणौ हौ यगणौ च यत्र तदत वैश्वदेवी नाम । पञ्चभिः सप्तभिर्यतिः । यथा । वश्यात्मा नित्यस्नानशीलो महात्मा मित्रे शत्रौ वा तुल्यचित्तप्रवृत्तिः | श्रद्धासंपन्नौ वैश्वदेवी च लोके स स्वर्गस्रीणां वल्लभः स्यात्सटैव ॥ ६७

अन्ध्यभैः स्याज्जलधरमाता म्भौ स्मौ । ६८

मगणभरगणस्रगणमगणा यत्र तदृतं जलधरमाला नाम । चतुर्भिरष्टभिश्च यतिः । यथा । सत्याकाशे जलधरमालाव्याप्े नीपामोदे प्रसरति ज्जञ्मावाते । वर्षीकात्रे मुदितमयूरव्राते त्यक्त्वा कान्तां व्रजसि कथं पाथ त्वम्‌ ॥ ६८

इह नवमालिनी नजपरौ भ्यौ । ६९

नगणजगणभ्रगणयगणा यत्र तदृत्त नवमालिनी नाम । इहेत्यवग्रहणादन्ध्यगैरिति'% पदविरीततया विपरिणमति तेनाष्टभिः चतुर्भिर्यथा ।

तव निशितासिघातदलिता रिदिपदकुम्भमौक्तिकसमूहैः ।

कृतनवमालिनीव भजति त्वां प्रति स्मरं नरेन्द्र जयलक्ष्मीः ॥ ६९

स्वरशरविरतिर्नौ रौ प्रभा नाम | ७०५

भवति नजावथ मालती जरौ । ७१

नगणजगणौ जगणरगणौ यत्र तद्ृततं मालती" नाम । यथा । भ्रमरयुवा भ्रमतीह मालतीतरुतलमप्यपहाय केतकीम्‌ | युवतिजनेन गृहीत नाम कः कथमपि न प्रतिबोधमेत्यसौ ॥ ७९ वरतनुरित्येके ।

जरौ जरौ वदन्ति पञ्चचामरम्‌ । ७२

इति वद तामरसं नजजाद्यः । ७३

नगणजगणौ जगणयगणौ यत्र तदृतं तामरसमिति वद शिक्षमिति शेषः । यथा ।


63 पाठे इहेत्यवग्रहणादब्ध्यंगेरिति । 164 उदाहरणं नास्ति । 165 पाठे मालाती ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४३&oldid=371609" इत्यस्माद् प्रतिप्राप्तम्