एतत् पृष्ठम् अपरिष्कृतम् अस्ति

46

सप्तभिर्यतिः । यथा । तुरगरजवतीं तुलरार्कमहीपतेरितरनृपशतेश्वमूमपराजिताम्‌ ।

जयति विजयिदोर्युगैकसहायवानवनिपतिरसौ प्रमारकुलोद्धवः ॥ ८२

ननभनलगिति प्रहरणकलिका | ८३

नगणौ भगणनगणलघुगुरवश्च यत्र तदृ प्रहरणकलिका नाम । इति शब्दस्याव्ययस्य ग्रहणात्सैव यतिः । यथा ।

रणभुवि भवता प्रहरणकलिता परहतवनितास्तव'” नृप रिपवः ।

विदधति शयनं कृततृणशयना वनभुवि सततं भयचकितहृदः ॥ ८३

उक्ता वसंततिलका तभजा जगौ गः । ८४८१)

तगणभभगणौ दौ जगणौ द्वौ गुरू च यस्य पादे तदृतत वसंततिलका नाम | यथा | भ्रातर्वसंततिलकानतिमुक्तकं च संदश्यतेऽत्र किमु मत्परमस्त्वमेतत्‌ । नाऽह स योऽभवदनेकविधोत्सवश्रीः'” संप्रत्यसत्यविरहैकगृह"“ प्रियायाः ॥

सिंहोदतेयमुदिता मुनिकाश्यपेन । ८४८२)

इयमेव वसंततिलका कश्यपस्याचार्यस्य'“ मतेन सिंहोद्धता नाम । यथा । उन्निद्रपद्रवदनः सुभगोऽङ्गनानामारक्तपादतलपाणीरदीनसत्वः । सिंहोदता समगलः सुविशालवक्षाः स्यादीटरशो नरपतिः पुरुषः पृथिव्याः ॥

उद्र्षिणी निगदिता मुनिसैतवेन । ८४८३) सैव वसंततिलका सैतवमुनिना उद्धर्षिणी निगदिता उक्ता । यथा |

संवत्सरे रसपयोनिधिमूर्यसंख्यैः श्रीविक्रमान्नरपते रचिता" ममेयम्‌ । उक्ता सनामभिरुदाहरण्यैरुदैरुदर्षिणी भवतु चेतसि सत्कवीनाम्‌ ॥

गौमेन सैवमुदिता मधुमाधवीति । ८४८४)


1" पाठे परमहतवनितास्तव ।

1" पाठे नाहसयोभवटनेकविधोत्सवश्रीः ।

"4 पाठे संप्रत्यसत्यविरहैःकगृहं ।

1 पाठे कस्यपस्याचार्यस्य ।

% पाठे रसपयोनिधिसूर्यसंख्यैश्रीविक्रमान्नरपतेरचिता ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४६&oldid=371612" इत्यस्माद् प्रतिप्राप्तम्