47
वसंततिलकामित्येके'"” | ८४
इन्दुवदना भजसनैः सगुरुयुग्मैः । ८५
भगणजगणसगणनगणा द्रौ गुरू च यस्य पादे तदृत्तमिन्दुवदना नाम । यथा । मारुतवशप्रचतितोत्पलरदलाक्षं शोभनललाटतटमध्यकृतपुण्डम् । रे पथिक सप्रति मधौ मदनबन्धौ संस्मरसि तद्रदनमिन्दुवदनायाः ॥ ८५
द्िःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् । ८६
यस्य चरणे पादे मगणसरगणमगणभगणा द्रौ गुरू तदुत्तं अलोला नाम । सप्तभिर्यतिः । यथा ।
यो देव द्िजभक्तः संसारेषु विरक्तः श्रौतस्मार्तविधीनां कर्त त्यक्तविकल्पः ।
मैत्रः कारुणिकात्मा क्रोधामर्षविमुक्तस्तस्य श्रीभ्रुवने स्याल्लोला नूनमलोला ॥ ८६
अतिशक्वर्याम् ।
दविहतहयलघुरथ गिति शशिकला" । ८७
द्विहतहयलघुरित्यर्थः गुरुश्च भवति यस्य चरणे तदृतं शशिकला नाम । सपतभिरष्टभिर्यतिः । पारिशेष्याययथा ।
कुसुमशरतनुदहनशिरसि जटामुकुटतटमणिरमलकिरणा"” ।
तव भवतु सुखकृदयमिह'* सततं प्रविपदि सुनभसि वसति" शशिकला ॥ ८७
स्रगिति भवति रसनवकयतिरियम् । ८८
षड्भ्भिर्मवभरिश्च यदा यतिर्भवति तदा खमिति नाम । मालेति वक्तव्ये कछदोभगभयात् सरगित्युक्तम् । एका्थत्वान्न दोषः । यथा । घनपरिमलमिितमधुपनिचया स्रगियमुरसि तव शशिमुखि शुशुभे ।
1 पाठे वसंततिलकामित्यने ।
1" पाठे शशिकाला ।
- पाठे जटामुकुटातटमणिरमलकिरणा ।
- पाठे सुखकृतयमिह ।
8" पाठे वशति ।