48 कटकयुगलमपि कलरवसुभगं त्रियमिदमिह जनयति सुचरणया+ ॥ ८८
वसुहययतिरिति मणिगुणनिकरः । ८९
इयमेव शशिकला वस्वष्टभिर्हयैः सप्तभिर्यदा मणिगुणनिकरः नाम । यथा । परजनहितकरवरधनकवितः सुवचनकृतवरजनसुखनिवहः | भवभुवि भवकृतवरतरमहिमा स भवति नरवर मणिगुणनिकरः ॥ ८९
ननमयययुतेयं मालिनी भोगिलोकैः । ९०
दरौ नगणौ मगणौ द्वौ यगणौ यस्य तदृतं मालिनी नाम । यथा । अष्टभिः सपतभिर्यतिः । नवजलधरमालामालिनी तां विलोक्य
निजदयितवियोगप्रान्तभावं निबोधम् ।
न न खलु जलधराणां नादमाकर्ण्य कश्चि-
द्रवति शिथिलरबुदिर्वेश्म गन्तुं प्रवासी ॥ ९०
भवति नजौ भजौ रसहितौ प्रभद्रकम् । ९१
यस्य पादे नगणजगणभ्गणजगणरगणास्तदृतंप्रभद्रकं नाम । यथा । अलभत दुश्चरेण तपसा हिमाद्रिजा
यमिह पतिं पतिं: त्रिजगतां महेश्वरम् । पवनसमुद्धुतामलिशिखाहुतस्मरो
दिशतु सतां सदैव सवि सुप्रभद्रकम् ॥ ९१
सजना नयौ" शरदशकविरतिरेला । ९२
सगणजगणनगणनगणयगणा यत्र तद्ृत्तमेला नाम । पंचकिर्दैशभिर्यतिः । यथा । वरचंदनद्रुमकिशलयमरिचैला-
लवलीलताप्रभृतिवनमिह धुन्वन् ।
मलयानिलः सपदि विदलितप्रयुक्त-
प्रमदाजनः प्रसरितपतिबन्धुः ॥'* ९२
° पाठे सुचरणयाः ।
९ पाठे पतिं ।
।* पाठे नजौ । टीकायां तु नयौ इति गृहीत्वा विवृतम् ।
- चरमे पादे कछंदोभगः लक्ष्यते ।