मौ म्यौ यान्तौ भवेतां सप्ाष्टभिश्वन्द्रलेखा । ९३
यस्य पादे मगणरगणमगणा द्वौ यगणौ तदत्तं चन्द्रलेखा नाम । सस्तभिरष्टभिर्यतिः । यथा |
विभ्रान्तिश्चन्द्रलेखां चूडामणिस्थानभृत्तां
यस्तार्तीयं च नेत्रं जाज्वल्यमानं ललाटे ।
कण्ठे यस्यास्थिमाला भस्मागरागः शरीरे
कल्पातां वः स दश्यात्त्रैलोक्यनाथो गिरीशः ॥ ९३
अष्टौ
भत्रिनभैः रसात्खमृषभजगविलसितम् । ९४
भरगणरगणौ त्रयो नगणा गुरुश्च यत्र तदृत्त ऋषभगजविलसितं नाम । षट्दशभिर्यतिः । यत्र चतुष्पथेषु विविधयुवतिजनता
साममनोरमेषु तव रिपुवरनगरे।% |
त्वद्भुजविक्रमेण नृपतिवर विजयति
संप्रति तत्र वन्यमृषभगजविल्रसितम् ॥ ९४
नजभजरैः सदा भवति वाणिनी गयुक्तैः । ९५
नगणजगणभ्रगणजगणरगणा गुरवो यत्र तदृत्तं वाणिनी नाम । यथा । चकितमृगेक्षणा गुरुनितम्बबद्धकाञ्ची
गुणकलकिकिणीरवविबोधासमेषुः ।
जनयति वाणिनी चतुरवाक्यपण्डितेयं
मुदमधिकां सखे मनसि करोति दृष्टा" ॥ ९५
अत्यष्टौ
18 पाठे तवरिवरनगरे । 1" पाठे टृष्टा / हृष्टा (ॐ ।
49