एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्बुदिः क्षयमेत्यहो निधनता सर्वापदामास्पदम्‌ ॥'

ममैव ते हृते । यथा ।

स्नेहाद्रेहाद्रुजगतनयालोककौतूहलेन स्थूोत्तुगस्तनभरलसन्मध्यभगानपेक्षाः । पौरा नार्यस्तरलनयनानन्दमुत्पादयन्त्यो धावन्ति स्म द्रूतमपहियः सरंसमानोत्तरीयाः ॥ इति ।

बोधप्रदीपेऽपि यथा |

यजर्येषां प्रतिपदमियं मण्डिता भूतधात्री

निर्जिंत्यैतद्धुवनवलयं यैः प्रदत्तं द्विजेभ्यः” ।

तेऽप्येतस्मिन्‌ गुरुभवहदे“ बुदुदस्तम्भवीलं

धृत्वा धृत्वा सपदि विलयं भूभुजः संप्रयाताः ॥

शिशुपालवधे यथा ।

प्राप्तनाभ्िहृदमज्जनमाशु“ प्रस्थितं निवसनग्रहणाय ।* इति ।

भ्रसंयोगेन" यथा ।

शशिमुखि भ्रमरोऽयं पद्मबुदध्याऽऽननं ते ।

समभिलषति पातुं त्यक्तवल्लीप्रसूनः ॥

तथा च |

भ्रमति भ्रमरमारीकानने विप्रमुक्ते । इत्यादि ।

वरतस्कुसुमेषु* व्योमगंगाम्बुजेषु त्रिदशकरिकटेषु स्वर्वधूकुतलरेषु । स्थितशयितविबुदधप्रीतिकस्ते” भ्रमोऽयं भ्रमसि भ्रमर येन त्वं मुधा केतकेषु ॥ पदादाविति किम्‌ । अन्यत्र मा भूत्‌ ।

ग्रसंयोगेन यथा । असमग्रविलोकनेन कि ते दयितं पश्य वरोरु' निर्विशंका ।


2 हितोपदेशः १.१२९

2" अस्पष्टम्‌ ।

० पाठे द्विज्येभ्यः ।

+ पाठे तेऽप्येतस्मिनुगुरुभवहदे ।

” पाठे बुदरुदस्तंवलीलं ।

° शिशुपालवधे प्राप्य नाभिनदमज्जनमाशु ।

> शिशुपालवधम्‌ १०.६० प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय । ओपनीविकमरुन्ध किल्न स्री वल्लभस्य करमात्मकराभ्याम्‌ ॥ १०.६० ॥

> पाठे भ्रसंयोगे ।

° पाठे वरुतस्कुसमेषु ।

  • पाठे स्थितशयितविबुद्धप्रीतिकस्तेभ्रमयं ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५&oldid=371372" इत्यस्माद् प्रतिप्राप्तम्