रसैः रदरैश्छिन्ना यमनसभला गः शिखरिणी । ९६
यगणमगणनगणसगणभगणा लघुगुरू च यत्र तदत्तं शिखरिणी नाम । षड्भिरेकादशभिर्यतिः ।
शशाकास्या चंचत्कुवलयदलस्पर्धिनयना
सनीलं गच्छती गुरुजघनभारालसगतिः ।
इयं पीनोततुगस्तनशिखरिणी वारवनिता
कटाक्षर्विक्षोभं जनयति मुनीनामपि हदि ॥ ९६
जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । ९
जगणसरगणजगणसगणयगणलघुगुरवो यत्र तदृतं पृथ्वी नाम । यथा । किमित्ययमसंस्कृतस्तव सुकेशि केशोच्चयः
किमित्युत सुमेखलाविरहिता च पृथ्वी कटिः ।
तदेहि कुरु मण्डनं त्यज रुषं वसंतोत्सवे
यतः सुतनु पञ्चषैरपि दिनैर्वयो यास्यति ॥ ९७
दिड्नुनि वंशपत्रपतितं भरनभनलगैः । ९८
भरगणरगणनगणभगणनगणलतघुगुरवो यत्र तद्रृ्त वंशपत्रपतितं नाम । दशभिः
सपस्तभिर्यतिः । यथा ।
नैव विदुस्तृषातुरधियस्तव रिपुनगरे मदिरदीर्धिकासु सलिलं सविधमपि मृगाः । अम्बुजवंशपत्रपतितद्रुमदलनिकरैः
छादितमातपे तु महति क्षितिपति तलका (?) ॥ ९८
रसयुगहयैरन्सौ मरौ स्तौ गो यदा हरिणी तदा । ९९
50
नगणसगणौ मगणरगणौ सगणलघुगुरवो यत्र तदुत्त हरिणी नाम । षड्भिः चतुभिर्यतिः
| यथा |
वटनममलतं धत्ते शोभां शशाकसमाश्रितां श्रवणयुगलरं दोलालीलां तनोति मनोभुवः । स्तनपरिसरे हारः स्फारः स्फुरत्यतिनिर्मलः