एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मकुटशशिकिशोरस्यन्दिपीयूषधारा- मधुरशिशिरभावस्तोमचोरैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। प्रणमदमरमौळि प्रस्फुरद्रत्नबृन्द- प्रसृमरकिरणश्रीदत्तहस्तेरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। प्रणमनकृतिसृष्टा शम्भुना पद्मपति- प्रविततिरियमित्यध्यस्यमानैरपाङ्गैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। प्रणमनपरसंसन्मोक्षसाम्राज्यलक्ष्मी- वरणकमलमालोदारयापाङ्गभङ्गया। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। गदगणगळनायुः कल्पनोदूढदीक्षैः अभिमतसकलार्थादानदक्षैः कटाक्षैः । अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। भवभरतपतापोपप्लतानां नतानां __ श्रमहृदमृतवृष्ट्या सान्द्रकारुण्यदृष्ट्या। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। दळमपिकुसुमं वा दत्तवद्ध्यो जनेभ्यो ___ विधिवलमथन श्रीविक्रयिण्या दृशा द्राक्। अघमखिलमपास्यन् अस्य डिम्भस्य शम्भुः सकलभयनिवृत्तिं साम्बमूर्तिर्विधत्ताम्।। अवनमनपराणां आत्मतत्त्वावबोध- प्रकटनपटुदीपैः प्रस्फुरद्भिः कटाक्षैः । 2

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:ThaaravalistotramSanskrit.djvu/२&oldid=214173" इत्यस्माद् प्रतिप्राप्तम्