पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् । गरदः = कृत्रिमा कृत्रिमविषदाता | कुण्डाशी च कुण्डगोलकावुक्त्वोको मनुना, यस्तयोरन्नमश्नाति कुण्डाशी स निगद्यते ॥ इति । ब्रह्मपुराणे तु, प्रस्थं षष्टिपलैः शुद्धैः कुण्डं प्रस्थचतुष्टयम् | भवेत् तद् यस्तु निगिरेत् स कुण्डाशी पतत्यधः ॥ इति । निगरणं चैकस्मिन्नेव भोजने । सोमविक्रय= मुञ्जवत् पर्वते जातः औषधिविशेषः सोमः तस्य विक्रेता | केचित्तु सोमयागसाध्याऽपूर्वविक्रेतेति वदन्ति | बन्दी स्तु तिपाठकः | तैलिकः = तिलनिष्पीडनकर्ता । कितवो= द्यूतस्य कर्ता । केचित कितव इति स्थाने केकर इति पाठः, तदा केकरोऽध्यर्द्धदृष्टि. बिंडा लडष्टिर्वा । मद्यपः = सुराव्यतिरिक्त मद्यपाता, इतरस्य महापा तकिपदेनोपादानात् । पापरोगी= अपस्मारवान् | अभिशस्तः =लता ऽसता वा पातकेन लोके कर्तृत्वेन प्रसिद्धः । दाम्भिकः = छद्मना धर्मकर्ता । रसविक्रयो = रसस्य पारदस्य विक्रेता, गुड़झौदलवण- तक्रविक्रेतेति शङ्खधरः । अमेदिधिषूपतिरित्यत्र दिधिषूशब्दो देहली. प्रदीपन्यायेन उभयत्र संबध्यते, तेन अग्रेदिधिषूपतिरप्रदिधिषूश्चेति । तौ च मनुनोकौ - परपूर्वापति धीरा वदन्ति दिधिषूपतिम् । द्विजोऽग्रेदिधिषूश्चैव सैव यस्य कुटुम्विनी ॥ पूर्व स्थितेति शेषः । देवलस्तु - ९१ ज्येष्ठायां यद्यनूढायां कन्याया मुह्यतेऽनुआ । सा चामेदिधिषूया पूर्वा तु दिधिषूर्मता ॥ इति प्रकारान्तरेणाग्रेदिधिषूमाह | तस्या वामेदिधिष्वाः पतिरस्मिन् वाक्ये निषिद्धः । वृद्धमनुस्तु प्रकारान्तरमाह- भ्रातुर्मृतायां भार्यायां योऽनुरज्येत कामतः । धर्मेणापि नियुक्तायां स शेयो दिधिषूपतिः ॥ मित्रनुक् = मित्रं यो द्रुह्यति, मित्रस्य कार्योपघाते वर्तते इत्यर्थः ।