पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- द्यूतवृत्तिः द्यूतोपजीवी । पूर्वन्तु कौतुकात् इतकर्लोक्तः, इदन्तु वृत्यर्थमिति भेदः । पुत्राचार्य उको नारदेन, पुत्राचार्य: स विज्ञेयो ग्रामे यो बालपाठकः । पुत्रावासविद्यो वा पुत्राचार्यः स उच्यते ॥ इति । पुत्राचार्यः = भ्रामरी च निगद्यते । अपस्मारी भ्रामरीति मेधातिथि:, रोगसाहचर्यात् । वित्रि = श्वेत कुष्ठवान् | पिशुनः=परमर्मप्रकाशकः । वेदनिन्दकः = वेदकुत्सनकर्ता । हस्तिगोऽश्वोष्ट्रदमकः- एतेषां विनेता गति शिक्षायितेति यावत् । नक्षत्रजीवी = ज्योतिषिकः । स्रोतसां भेदक: सेतुभेद नेन श्रीह्याद्यर्थ प्रवाहनेता । तेषां स्रोतसां आवरणम् आच्छादन तस्मि भैरन्तर्येण युक्तः | गृहसंवेशकः वाईकिवृत्त्युपर्जावी | दृत्य= प्रेभ्यः । वृक्षारोपकमूल्येन वृक्षारोपणकर्ता | धर्मार्थ वृक्षारोपणस्य विहितत्वात् । खक्रांडी = इवभिः क्रीडनकर्ता । श्वभिर्जीवति स श्वजीवी । कम्यादूषकः=कन्याया योनिविदारणकर्ता । वृषलवृत्तिः = वृषला: रुद्राः तेषां सेवादिरूपा वृत्तिर्यस्य सः । क्वचिद् वृषलपुत्रेति पाठः । तदा वृषला एव पुत्रा यस्य स । गणाना याजकः =गणामामहर्गणानां द्वादशादीनां याजकः । क्लीबः = असत्वः । नित्ययाचनकः- नित्यं याचापर इत्यर्थः । कृषिजीवी=स्वयं कृषिकर्ता । अस्वय कर्तृका यास्तस्याः गौतमेन ब्राह्मणमुख्यवृत्तित्वेनाभिधानात् । इलीपदी-इलीपद पादोच्छ्रनताख्यो रोगस्तद्वान् । निन्दितः = विनापि दोष सतां दृष्यः औरत्रिका = उरभ्रा मेषास्तैः क्रयविक्रयादिकर्ता, तद्द्दृत्युपजीवीति या वत् । माहिषिकोऽप्येवमिति मेधातिथिः । अन्ये महिषी तूच्यते भार्या या चैव व्यभिचारिणी । तस्यां यो जायते गर्भः स वै माहिषिकः स्मृतः ॥ इति देवलोको ग्राह्य इत्याहुः । अयं च स्वभर्तुः सकाशाज्जातः, अन्यस्य कुण्डत्वात् । ब्रह्माण्डपुराणे तु, महिषीत्युच्यते भार्या या चैव व्यभिचारिणी| तस्यां यः क्षमते दोषं स वै माहिषिकः स्मृतः ॥