पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् | इति उक्तः । परपूर्वापतिः=परपूर्वा पुनर्भूस्तस्याः पतिः । एतान् विगर्हिताचारान् उभयत्र दैवे पित्र्ये चेत्यर्थः । यमोऽपि । अश्राद्धेया द्विजाश्चान्ये तान्मे निगदतः शृणु। येभ्यो दन्त न देवानां न पितॄणां च कर्मकृत् ॥ काणाः कुन्जाश्च षण्ढाश्च कृतघ्ना गुरुतल्पगाः | ब्रह्मनाश्च सुरापाश्च स्तेना गोना चिकित्सकाः ॥ राष्ट्रका मास्तपोन्मत्ताः पशुविक्रयिणश्च ये । (१) ग्रामकुटास्तुलाकूटा: शिल्पिनो ग्रामयाजकाः ॥ वृषलीभि प्रपीताश्च श्रेणीराजन्ययाजकाः । राजभृत्यान्धबाघगमूकखल्वाटपङ्गवः ॥ (२) कल्पोपजीविनश्चैव ब्रह्मविक्रायणस्तथा । दण्डध्वजाश्च ये विप्रा ग्रामकृत्यकराश्च ये ॥ आगारदाहिनश्चैव गरदानलदाहकाः । कुण्डाशिनो देवलकाः परदाराभिमर्षकाः ॥ व्यावदन्ता कुनखिनः शिवत्रिणः कुष्ठिनश्च ये । वणिजो मधुहन्तारो हस्त्यश्वदमका द्विजाः ॥ कन्यानां दुषकाश्चैव ब्राह्मणानां च दूषकाः । सूचकाः पोषकाश्चैव कितवाश्च कुशीलवाः || समयानां च भेतारः प्रदाने ये च वारकाः । अजाविका माहिषिकाः सर्वविक्रयिणश्च ये । वैष्णवीषु च ये सक्ताः शलाकादाहिनश्च ये । धनुष्कर्ता द्यूतवृत्तिः मित्रभुक् शठ एव च ॥ इषुकर्ता तथा वर्थ्यो यचाग्रेदिधिषूपतिः । पाण्डुरोगी गण्डमाली यक्ष्मी च भ्रामरी तथा ॥ पिशुनः कूटसाक्षी व दीर्घरोगी वृथाश्रमी । प्रव्रज्योपनिवृत्तश्च वृथा प्रवजितश्च यः ॥ यस्तु प्रवाजताजातः प्रव्रज्यावसितश्च यः ( १ ) मानकूटा इति कमलाकरोद्धृतः पाठः । ( २ ) कन्योपजीविन इति युतम् ।