पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- दवेलस्त्वन्यथाह, वेश्यापतिः कृष्णपृष्ठः काण्डपृष्ठो भवेदिति । हेमाद्रौ तु काण्डस्पृष्ट इति पाठः स च "काण्डस्पृष्टः शस्त्रजवी " इत्यनुशासनात् प्रसिद्ध इत्युक्तम् । चण्डः = छिनमेहनचर्मेति हेमाद्रिः । विद्धशिश्नः=शिश्नमूले छिद्रं कृत्वा तत्र सुवर्णघण्टिका घटितमुक्ताफ- लादिबन्धनकर्तेति स एव । प्रायोऽनशनं तत उत्थितो निवृतः प्रायो- त्थितः । किलासी सिध्मरोगी । शङ्खलिखितौ, घाण्डिको देवलकः पुरोहितो नक्षत्रादेशवृत्तिः ब्रह्मपु रुष इति । अपाङ्केया इति वक्ष्यमाणेन सम्बन्धः । घाण्टिकचोक्त उशनसा । राज्ञः प्रबोधसमये घण्टा शिल्पस्तु घाण्टिकः ॥ इति । महतीं घण्टां वादयन् यः प्रतिगृहं भिक्षते स वा घाण्टिकः । ब्रह्मपुरुष = यो जीवन् मुक्तबेषेण लोकान् प्रतारयन् द्रव्यमर्जयति सः । शातातपः, अनिष्टोमादिभिर्यशैर्ये यजन्त्यल्पदक्षिणै । तेषामन्नं न भोक्तव्यमपायाः (१) प्रकीर्तिताः ॥ आवेष्टिकपश्चळवार्धुषिकाहि तुषिडक प्रत्यवसित भृताध्याप काध्यापिततैलिक सूचकनियामककुशीलवादीन् दैवे पिये च वर्जयेत् । नास्तिकलीबकदर्योरभ्रकाक्रीडितानृतवादिनो जपहोमसन्ध्याविव जिताः । स्रौवयौन मौखसङ्करसङ्कीर्णाऽपुण्याब्राह्मणवृत्तिप्लवबन्धो. पजीविवृषलीपतिशूद्रग्रामयाचकतस्करागारदाहिगरदाः सोमवि क्रयिगायक नर्तक धनुःशरयोजककुण्डगोलकनराशंसकपिलदेवघा. ण्टिकनक्षत्र जीविमहोदधिगामिदीर्घरोगिमहापथिकाः पतिताः पति- तपुरोहिताश्चानिवर्तमानाः पङ्किदूषकाः इति । मरणफलकं ग्रीवावेष्टनं भावे कस्तदर्थ यो यज्ञे परिक्रीयते स आवेष्टिकः । पौबलः पुंधली शुल्कोपजीवी । आहितुण्डिकः = सर्पक्रीड़ी । प्रत्यवसितः = आश्रमच्युतः । नियामक = कपोतवाहः परान्शियमयतीति वा । आक्रीडी=क्रीडाशीलः । नराशंसो=मनुष्यस्तावकः | कपिलो=अतिकपिलवर्णः । दीर्घरोगी= आचिकि त्स्यव्याधिः । महापथिकः=अतिदूरदेशादागतः । कल्पतरौ तु दीर्घमहाप- ( १ ) अपाङ्कास्ते प्रकीर्तिता इति कमलाकरोत. पाठः ।