पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१११

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् | १०६ आवन्त्यान्मागघांश्चैव ब्राह्मणांस्तान् विवर्जयेत् । अपायेभ्य एव दत्तं न केवलमफलम् | अपि तु तत् पङ्क्युपविष्टानामपि दत्तमफलमिति । तथा च मनुः तथा अपाङ्कयो यावतः पाङ्कषान् भुजानामनुपश्यति । तावतो न फलं तत्र दाता प्राप्नोति बालिशः ॥ यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः । तावतां न भवेदातुः फलं दानस्य पैतृकम् ॥ केषां चिदपायानां संख्या विशेषेण सहपङ्कयुपविष्टकस्वाह स एव - वीक्ष्यान्धो नवतेः काणः षष्टेः शिवत्री शतस्य तु । पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ अत्र चान्धस्य वीक्षणालम्भवात् वीक्ष्येत्यनेन संविधानमात्र लक्ष्यते तेन संनिधानमेव नवत्यादेः फलनाशकमिति शेयम् । सन्नि धिश्च बावान् देशश्चक्षुष्मतो दृष्टिगोचरस्तावति देशेऽवस्थितत्वम् । एतच काणादौ संख्यापचये दोषलाघवं प्रायश्चित्तविशेषार्थमिति मेघातिथिः । क्वचिदपवादमाह वशिष्ठः । अथाप्युदाहरन्ति । अथ चेत् मन्त्रविद्युक्तः शारीरैः पङ्किदूषणैः । अदुष्यं तं मनुः प्राह पडिपावन एव सः ॥ इति । मन्त्रविदा नवत्या मध्यस्थेन युक्त इत्यर्थः । शारीरा अपि दोषाः शिवत्र्यादिव्यतिरिक्ताः । होनाधिकाङ्गुलित्वादय इति हेमाद्रिः । अत्र विशेषमाह कश्यपः । काणादीन भोजये श्राद्धे दाने तु वर्जयेत् । दैवे वैश्वदेवे यदि श्राद्धे भोजयेत्तद्देत्यर्थः । दाने तु वर्जयेदेव | यत्तु वशिष्ठेनोक्तम्- (१)विद्वत्सु चेश्वविद्वांसो यस्य राष्ट्र्षु भुञ्जते । (२) तान्यनावृष्टिमिच्छन्ति (३) महद् वा जायते भयम् ॥ इति । तत्, यत्र विद्वसु सत्सु श्राद्धे, अविद्वांसः श्रोत्रियाद्यसमिश्रिता भुजत इति व्याख्येयम् । (१) विवलोज्यान्यविद्वांसो येषु राष्ट्रेषु भुजते इति पु० मुद्रितवशिष्ठस्मृतौ पाठ । ( २ ) तदन्नं नाशमायाति महम्चापि भयं भवेत् इति पाठान्तरम् । ( ३ ) तान्बनावृष्टिमृच्छन्तीति पाठान्तरम् ।