पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ वीरमित्रोदयस्य श्राद्धप्रकाशे- नन्विदं विहित निषिद्धस्वरूपज्ञानं न परीक्षणमन्तरेणोपपद्यते तत्र परीक्षणं विश्वामित्रेण निषिद्धम् । न ब्राह्मणं परीक्षेत कदाचिदपि बुद्धिमान् । दातॄन परीक्ष्य दत्तानि नयन्ति नरकं ध्रुवम् || भविष्यपुराणेऽपि । आदित्य उवाच । एवमेव न सन्देहो यथा वदसि खेचर | ममाप्येतम्मतं वीर ब्राह्मणं न परीक्षयेत् ।। तत् कथं परीक्षणव्यतिरेकेण विहितज्ञानं कार्यमिति | सत्यम् । निषेधस्यान्नदान परीक्षापरत्वेनाप्युपपत्तेः । श्राद्धे परीक्षायां बा धकाभावात् । अत एव विष्णुधर्मोत्तरे, बिष्णुरपि । अन्नदाने न कर्तव्यं पात्रावेक्षणमेव तु । अनं सर्वत्र दातव्यं धर्मकामेन वै द्विज ॥ सदोषेऽपि तु निर्दोषं सगुणेऽपि गुणावहम् । तस्मात् सर्वप्रयत्नेन देयमन्नं सदैव तु || पित्र्ये कर्मणि तु प्राशः परीक्षेत प्रयत्नतः । दैवे कर्मणि ब्राह्मणं न परीक्षेत यत्नात् परीक्षेत पित्र्ये । केचि स्वयं परीक्षणस्यायं निषेधोऽन्यद्वारा परीक्षणे न दोषं वदन्ति । परीक्षण प्रकार उक्तो मत्स्यपुराणे । शीलं संवसता ज्ञेयं शौचं सधवहारतः | प्रज्ञा सङ्कथनाद् शेया त्रिभिः पात्रं परीक्ष्यते ॥ इति । इय च श्राद्धीयब्राह्मणपरीक्षा अतिथिष्यतिरिक्तस्य । न परीक्षेत चारित्रं न विद्यां न कुलं तथा । न शीलं न च देशादीनतिथेरागतस्य हि || कुरूपं वा सुरूपं वा कुवैलं वा सुवाससम् । विद्यावन्तमविद्यं वा सगुणं वाथ निर्गुणम् ॥ मन्येत विष्णुमेवैनं साक्षान्नारायणं हरिम् । अतिथि समनुप्राप्तं विचिकित्सेन कर्हि चित् ॥ इति नृसिंहपुराणे तत्परीक्षणनिषेधात् । गुणागुणविचारेण धमन्ते तेऽवमानिताः । निर्दहत्याशु गृहिणं ताइशेष्वमानना ||