पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्ज्यब्राह्मणनिरूपणम् | अतोऽतिथेर्न कर्तव्या कापि चर्चा कदाचन ॥ इति वायुपुराणे दोषोक्तेश्च । न चायं परीक्षानिंषधः श्राद्धादन्यत्र श्रद्धेऽतिथेनिमन्त्रणाभावेनाभोज्यत्वादिति वाच्यम् । १०३ काले तत्रातिथि प्राप्तमनकामं द्विजोत्तमम् । ब्राह्मणैरभ्यनुज्ञातः कामं तमपि भोजयेत् || योगिनो विविधैरूपैर्भवन्तीत्युपकारिणः । भ्रमन्तः पृथिवीमेतामविज्ञातस्वरूपिणः ॥ तस्मादभ्यर्चयेत् प्राप्तं श्राद्धकालेऽतिथि बुधः । श्राद्धक्रियाफलं हन्ति द्विजेन्द्रोऽपूजितोऽतिथिः ॥ इति वाराहे तस्य भोज्यताविधानात् अतिथिर्यस्य नाइनाति तच्छ्राद्धं न प्रशस्यते । इत्यभोज्यत्वे शातातपेन दोषोक्तेश्च अत्राविज्ञातस्वरूपिण एवा. र्खनीयत्वाभिधानात् यत् केनचिदुच्यते प्रागुदाहृतविष्णुवचनादः तिथेरपि श्राद्धपरीक्षणं कर्तव्यमेव, यत्तु तस्यापरीक्ष्यत्वं तच्छ्राद्धा तिरिक्तविषयमिति, तत्तिरस्कृतं वेदितव्यम् । अविज्ञातं द्विज श्राद्धे न परीक्षेत् सदा बुधः । इति वायुपुराणेऽतिथि प्रक्रम्योक्तेश्च । ब्राह्मणैरभ्यनुज्ञात इति वाक्ये ब्राह्मणपदस्य निमन्त्रितार्थकत्वात् तदनुशायामेवातिथिर्भोज्य इति भावः । ब्राह्मणातिरिक्तानामतिथि समानधर्मिणान्तु श्राद्धोत्तरकालं भोजनम् । तदपि विकल्पेन । तथाच मनुः- यदि त्वतिथिधर्मेण क्षत्रियो गृहमात्रजेत् । भुक्तवत्सु च विप्रेषु काम तमपि भोजयेत् ॥ अत्र काममित्युपादानात् सत्यामिच्छायामिति गम्यते न ब्राह्म णातिथिवनियमेनेति । ब्राह्मणोऽतिथिश्च ब्राह्मणपङ्कावुपवेशनीयः | न हि विद्यादयस्तस्मिन् पूज्यताहेतवः स्मृताः । केवलेना तिथित्वेन स भवेत् पङ्किपावनः || इति वायुपुराणे पडिपावनत्वोक्तेः । यतु- शेषान् वित्तानुसारेण भोजयेदन्यवेश्मान || इति पुराणवचनं तच्छ्राद्धीयवेश्मन्यवकाशाभाव इति हेमाद्रिः । यतिरूपातिथिस्तु श्राद्धपङ्कोवेवोपवेशनीयः | श्राद्धकाले यति प्राप्त पितृस्थानेषु भोजयेत् ।