पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ वीरमित्रोदयस्य श्राद्धप्रकाशे- इति बृहस्पतिना स्थानविशेषोतेः । पितृस्थानेविति बहुवचनावपित्रादिस्यानेन्वित्यर्थः । इदं च पितृस्थाने उपवेशनस्थानकल्पना- तः पूर्वमागतस्य, पश्चादागतस्य स्वतिथिवत्पङ्कौ भोजनमात्रं देय मिति हेमाद्रिः । अत्र च यतिस्त्रिदण्डी श्रेयः । शिखिभ्वो धातुरक्तेभ्यस्त्रिदण्डिभ्यः प्रदापयेत् । इति ब्रह्मवैवर्तात् । शिखावन्तो गैरिकारक्तवसनास्त्रिदण्डाश्च तेभ्यः प्रयत्नेन दद्यादिति श्राद्धं प्रक्रम्य बौधायनवचनाच | यस्तु, मुण्डान् जटिलकाषायान् श्राद्धकाले विवर्जयेत् । इति निषेधः स त्रिदण्डिव्यतिरिक्तपरः । न च सवतेर्न- अष्टौ भिक्षाः समादाय दश द्वादश वा यतिः । अखिला शोधयेत्तास्तु ततोऽश्नीबाद् द्विजोत्तमः ॥ इति भैक्ष्यभोजनविधानात् कथं यतेः श्राद्धनियोग इति वाच्यम् । असतोऽनुग्रहार्थ वा यतिरेकान्नभुग्भवेत् । इति काष्र्णाजिनिनैक भिक्षावा अपि विधानात् नियोगोपपत्तेः । नन्वेवमपि न पतेः श्रद्धे प्राप्ति, श्रद्धस्य मधुमांससाध्यत्वात् यतेश्च तन्निषेधादिति चेन्न । तद्रहिते श्राद्धे तत्रियोगस्य सुवचत्वात्, निषेधमुल्लङ्घ प्रवृत्तयतिविषयत्वेनापि नियोगसम्भवाश्चेति । मनु कस्मान् मधुमांसवत्यपि श्राद्धे यतेर्मधुमांसव्यतिरेकेण भोजनं न न भवति ब्रह्मचारिण इवेति चेत्, विधायकाभावात् । ब्रह्मचारिणस्तु, ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि । ह्मणः काममश्नीयाच्छ्राद्धे व्रतमपीडयन् ॥ इति याज्ञवल्क्येन तथाविधानादिति हेमाद्रिः । इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजित चरण. कमलश्रीमन्महाराजप्रतापरुद्र तनूजश्रीमन्महाराजमधुकरसाहस् नुचतुरुदधिवलय वसुन्धराहृदय पुण्डरीकृषि काशदिनकरश्री. मम्महाराजाधिराजश्री वीरसिंह देवोद्योजितश्रीहंसपण्डिता- त्मजश्री परशुराम मिश्रसूनुसकलविद्यापारावारपारीणः धुरीणजगहारिघ्र महागजपारीन्द्र विद्वज्जनजीवाः •तुश्रीमन्मित्र मिश्रकृते वीरमित्रोदयाभिधनिबन्धे श्राद्धप्रकाशे ब्राह्मणनिरूपणम् ।