पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ निमन्त्रणप्रकारः | निमन्त्रणप्रकारः |तच्चाहमत्र विश्वेदेवादिस्थाने भविष्यामीत्येवं ब्राह्मणस्वीकारफलको यः वक्ष्यमाणप्रयोगवाक्योच्चारणपूर्वको व्यापारः । इदं च श्राद्धपूर्वदिने प्रदोषान्ते कार्यम् । "प्रार्थयीत प्रदोषान्ते भुकानशयितान् द्विजान्" इति यमोक्ते' । भुक्तान् इति च निमन्त्रणोत्तर भोजनव्यावृत्तिमात्रं क्रियते न तु कृतभोजनत्वं वास्तवमपेक्षितमनुपयोगात् । उक्तकाले तदसम्भवे निमन्त्रणं परेरपि कार्यम्, असम्भवे परेधुर्वा ब्राह्मणांस्तानिमन्त्रयेत् | इति देवलोके । इद च स्वयमेव कार्ये "दाता विप्राश्निमन्त्रयेत्” इति तस्यैवोक्तेः । तदसम्भव वा स्वयं प्रेषितेन सवर्णेन । "सवर्णं प्रेषयेदाप्तं द्विजानामुपमन्त्रणे" इति प्रचेतःस्मरणात्, अभोज्यं ब्राह्मणस्यानं क्षत्रियाद्यैर्निमन्त्रितम् | इति हेमाद्रिघृतनिषेधवचनाश्च । तत्रापि पुत्रो मुख्यः "यथैवात्मा तथा पुत्र" इति स्मरणात् । तस्याप्यसम्भवे भ्रातृशिष्यादिरिति शेयम् । “स्वयं शिष्योऽथवा सुत" इति बृहस्पतिवचनात् । अत्र च पाठ क्रमो न विवक्षितः सुतस्यान्तरङ्गत्वादिति हेमाद्रिः । निमन्त्रणप्रकारश्च प्रचेतसा उक्तः - कृतापसव्य : पूर्वेयुः पितृपूष निमन्त्रयेत् | भवद्भिः पितृकार्य नः सम्पाद्यं वः प्रसीदत ॥ सव्येन वैश्वदेवार्थ प्रणिपत्य निमन्त्रयेत् ॥ इति । भवद्भिरित्यादि च ब्राह्मणोन्मुखीकरणमन्त्रोन तु निमन्त्रणमन्त्र इति हेमाद्रिः । निमन्त्रणं तु अमुकस्य श्राद्धे त्यया क्षणः क्रियतामित्येवं कार्यम् । ब्राह्मणानां गृहं गत्वा तान् प्रार्थ्य विनयान्वितः । अमुकस्य त्वया श्राद्धे क्षणो वै क्रियतामिति ॥ (१) वदनभ्युपगच्छेयुर्विप्राश्चैवतथेति च । भूयोऽपि व्याहरेत् कर्ता तान् प्राप्नोतु भवानिति ॥ द्विजन्तु प्राप्नवानीति विधिरेष निमन्त्रणे || इति नागरखण्डोक्तेः । एवं च ब्राह्मणैरपि सर्वैः सहैवोन्तथेत्युच्चार्य ( १ ) वदेदिति मयूखे पाठः । १४ वी० मि०