पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- यजमानेन च प्राप्नोतु भवान् इत्युक्ते प्राप्नवानीति च वक्तव्यमिति हेमाद्रिप्रभृतयः | केचित्तु, दक्षिणं जानुमालभ्य त्वं मयाऽत्र निमन्त्रितः । इति निमन्त्रणवाक्यमित्याहुः' । मैथिलास्तु त्वामहमामन्त्रये इति वदन्ति । शूलपाणिस्तु त्वां निमन्त्रये इति प्रयोगवाक्यमित्याह । अन्येतु उभयविधप्रयोगदर्शनात विकल्प एवेत्याहुः । तमच निमन्त्रण ब्राह्मणेन दक्षिणं जानुमालस्य कार्यम्, उदाहृतमत्स्यवाक्यात् । यत्त प्रागुदाहृतप्रचेतोवचने प्रणिपत्थत्युक्तम्, तत्, शूद्रविषयम् । दक्षिणं चरणं विप्रः सव्य वै क्षत्रियस्तथा । पादावादाय वैश्यो द्वौ शूद्रः प्रणतिपूर्वकम् ॥ इति आदित्यपुराणात् । निमन्त्रणस्य क्वचिदपवाहो मार्कण्डेयपुराणे - भिक्षार्थमागतान् विप्रान् काले संयमिनो यतीन् । भोजयेत् प्रणिपाताद्यैः प्रसाद्य यतमानसः ॥ इति । सयमिनो= ब्रह्मचारिणः । अथ निमन्त्रणीयब्राह्मणसङ्ख्या | तत्र याज्ञवल्क्यः, दैवे युग्मान् यथाशक्ति पित्रेऽयुग्मांस्तथैव च । युग्मान्=लमसङ्ख्याकान् । गौतमः, नवावरान् भोजयेत्, अयुजो वा यथोत्साहमूर्ध्वं त्रिभ्यो गुणवन्तमिति । नवभ्यः नावरा अधिकसङ्ख्याकाः । नवाद्येकसङ्ख्याका इति तु हेमाद्रिः । इयं च सङ्ख्या प्रत्येकं पित्रादित्रिके सम्बध्यते प्रतिप्रधानं गुणावृत्तेन्यथ्यत्वात् । नवावरेष्वपि समव्यावृत्यर्थमयुज इत्युक्तम् । यथोत्साहमिति । उत्साहः= शक्तिः । ऊर्ध्व=नवभ्योऽपि । यत्र तु ब्राह्मणा अनेके न लभ्यन्त तत्र त्रयाणां पित्रादीनामर्थ एको यदि भोज्यस्तदा गुणवानेवेत्याह | त्रिभ्यो गुणवन्तमित्यादिना | इदं च नवावरत्वं वैश्व देविकेऽपि शेयम् । समसङ्ख्यत्वं परं तत्राधिकं ज्ञेयं स्मृत्यन्तरात् । एवं मातामहेष्वपि अनुसन्धेयम् । तेषामपि च वैश्वदेविकस्य तन्त्र-