पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति

निमन्त्रणपूर्वकालकृत्यम् । त्वपक्षे सेदपक्षे वा गणनया तावन्तो ब्राह्मणा अनुसन्धेयाः । मातामहानामध्येवं तन्त्रं वा वैश्वदेविकम् | इति वचनात् । अशक्तं प्रत्याह विष्णुपुराणे | देवानामेकमेकं वा पितॄणां च नियोजयेत् ॥ इति । यदा तु अत्यन्त मशक्केन एक एव ब्राह्मणः प्राप्यते तदा तेषां वर्गद्वयस्थाने एकमेव उपवेश्य देवस्थाने देवतां वा दार्भं बटुं वा स्थापयेत् । एकेनापि हि विप्रेण षट्पिण्डं श्राद्धमाचरेत् । इति देवलोक्ते । यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् । अनं पात्रे समुद्धृत्य सर्वस्य प्राकृतस्य च ॥ देवतायतने कृत्वा यथाविधि प्रवर्तयेत् । इति वृद्धवशिष्ठवचनात् । तदभावे कुशमयं स्थापयित्वा निमन्त्रयेदि ति समुद्रकरवृतभविष्यचचनाच्च । पित्रे विषमसङ्ख्या एव ब्राह्मणा भवन्ती त्युक्तम्। यत्तु आखलायनेन एकैकस्य द्वौ द्वौ त्रीस्त्रीन् वा वृद्धौ फलभूयस्त्वं नत्वेवैकं सर्वेषां पिण्डैर्व्याख्यातं काममनाद्य इति पित्र्ये समसङ्ख्यकब्राह्मणविधानं कृतं तद्वृद्धिश्राद्धविषयमिति कल्पतरुप्रभृतयः | नत्वेवैकं सर्वेषामर्थे एकं न कुर्यादित्यर्थः । पिण्डैर्ध्याख्यातं यथा सर्वेषामर्थे एकपिण्डो न भवति तद्वदित्यर्थः । काममनाय आद्य सपि ण्डीकरणं तद्भिने कामं इच्छया एकमपि भोजयेदित्यर्थः । अनाद्ये=असाभावे वा, अथवा अनाये = आमश्राद्ध इत्यर्थः । यदा चैकोऽपि भोज्यते तदा प्रकारविशेषो बृहस्पतिनोक्तः - यद्यकें भोजयेत् श्राद्धे स्वल्पत्वात् प्रकृतस्य च । स्तोकं स्तोकं समुद्धृत्य तेभ्योऽनं विनिवेदयेत् ॥ तेभ्यः पितृभ्यः । उक्तेषु पक्षेषु विस्तरपक्षं सक्रियाविधायकत्वेन अनुकल्पपक्षप्रशंसाथै निन्दति बृहस्पतिः । एकैकमथवा द्वौ त्रीन् दैवे पित्र्ये च भोजयेत् । सक्रियादेशकालादि न सम्पद्येत विस्तरे ॥ इति । अयं च निषेधो नादृष्टार्थः | हेतुनिर्देशात् तेन यो ब्राह्मणवा हुल्येऽपि सक्रियादि सम्पादनसमर्थः तस्य गौतमीयोक्ताः पक्षाः ज्ञेयाः ।