पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति

निमन्त्रितानां नियमाः । अत्र निमन्त्रणीयब्राह्मणसमपिगमनादिनियमश्रावणान्तं प्रतिब्राह्मणमनुसन्धेयमिति हेमाद्रिः । अङ्गीकृत निमन्त्रणेन तु "आमन्त्रितोजपेद्दोग्ध्रीम्" इति भृगुस्मृते: “आब्रह्मन् ब्राह्मणो ब्रह्मवर्चसीत्यादि योगक्षेमो नः कल्पताम्" इत्यन्तानि यजूषि जप्तव्यानि । तानि जप्यप्रकरणे वक्ष्यन्ते । अथ निमन्त्रितनियमाः। तत्र मनुः - कोततस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः । कथं चिदष्यतिक्रामन् पापः शूकरतां व्रजेत् ॥ केतितो=निमन्त्रितः | स्वीकृत्य निमन्त्रण यदि कामादिनातिका मेत्तदा सुकरयोनिप्रदं पापं प्राप्नुयादित्यर्थ । केचिन्तु प्रार्थ्यमानः सन् यदि अतिक्रामेत् नेच्छेनिमन्त्रणमिति व्याचख्युः । ननु लिप्सया श्राद्धभोजने प्रवृत्तिर्न विधिनः, तत्र विध्यपरा- धाभावे कुतो दोष इति चेत् । न । ऋतुगमनवदुपपत्तेः । यथा हि ऋतौ भार्यागमने रागतः प्रवृत्तिसम्मवेऽपि अगमने दोषश्रवणात् क्रोधादिनाऽगच्छन् प्रत्यवतीति कल्प्यते, एवमिहापि सत्यपि श्राद्धभोजनस्य रागतः प्राप्तत्वे उक्तवश्यमाणनिन्दा वचनैर्निमन्त्रणमति क्रामन् प्रत्यवैतति कल्प्यते । यतः, आमन्त्रितस्तु बो विप्रो भोक्तुमन्यत्र गच्छति । नरकाणां शतं गत्वा चाण्डालेष्वभिजायते ॥ अनिन्द्यामन्त्रणमवश्यमङ्गीकर्तव्यमित्याह देवलः- कर्मप्रतिश्रवस्तेषामनिन्द्यामन्त्रणे कृते । अनिन्द्येनामन्त्रितानां काममस्त्वित्येवं प्रतिश्रवोऽङ्गीकार एव युक्त इत्यर्थः । इदं च शक्तविषयम्, अशक्तं प्रति विध्यप्रवृत्तेः । तथा च ज्वराद्यभिभवेन भोक्तुमसामर्थ्य प्रत्याख्यानं कुर्वतोऽपि न दोषः। अनेनैवाभिप्रायेणाह गौतमः । अनिन्दितेनामन्त्रिते शकेन न प्रत्याख्यानं कर्तव्यमिति । शक्तेन = भोजन समर्थेनेत्यर्थः । एवं ब्राह्मण चतुर्मुखं कृत्वा देवताः पितृभ्यः सह तदनं समुपा