पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

निमन्त्रितानां नियमाः । तस्मात् दोषान् परित्यज्य त्रीनेतानपरानपि । ब्रह्मचारी शुचिर्भूत्वा श्राद्धं भुञ्जीत शक्तिमान् || त्रीन= स्त्री सम्भोगाऽन्यप्रतिग्रहपुनर्भोजनाख्यान् । यमः, देवलः, आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते । भवन्ति पितरस्तस्य तं माझं शुक्रभोजनाः | अत्र वृषलीशब्दः स्त्रीमान्त्रोपलक्षणार्थः । सामान्यत एव ब्रह्मचर्यस्य विधानात् । वृषं भर्तारं लाति स्वीकुरुते इति व्युत्पस्या ब्राह्म- ण्यपि वृषल्येवेति हेमाद्रौ व्याख्यातम् । शुद्रीगमने दोषाधिक्यप- राण्येतानि वचनानीत्यन्ये । अत्र च मैथुनं ऋतुमत्यामपि स्वभार्या यां न कर्तव्यम् । तथा नियुक्तेन देवतादिनापि न कर्तव्यम् । ऋतुकाले नियुक्तो यो नैवगच्छेत् स्त्रियं क्वचित् । तत्र गच्छन् समाप्तोति ह्यनिष्टं फलमेव तु ॥ इति निमन्त्रितं प्रक्रम्य वृद्धमनूतेः । कूर्मपुराणे यमोशनसौ- उशना:- निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः | भवन्ति पितरस्तस्य तं मासं मलभोजनाः ॥ यमः- आमन्त्रितस्तु यः श्राद्धे भारमुद्रइति द्विजः । पितरस्तस्य तं मासं भवन्ति स्वेदभोजनाः ॥ आमन्त्रितस्तु यः श्राद्धे द्यूतं संसेवते द्विजः । भवन्ति पितरस्तस्य तं मासं मलभोजनाः ॥ आमन्त्रितस्तु यः श्राद्धे आयासं कुरुते द्विजः । भवन्ति पितरस्तस्य तं मासं पित्तभोजनाः ॥ अहिंसा सत्यमक्रोधो दूरे चागमनक्रिया । अभारोद्वहन क्षान्तिः श्राद्धस्योपासनाविधिः ॥ दूरे= सीम्नः परस्तात् । न गन्तव्यमित्यर्थः । ब्रह्माण्डपुराणेsपि - न सीमानमतिकामेत् श्राद्धार्थ वै निमन्त्रितः ।