पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

बीरमित्रोदयस्य श्राद्धप्रकाशे- पर्यटन् सीममध्ये तु कदाचिन प्रदुष्यति ॥ श्राद्धभुक् पुनर्भोजनादि न कुर्यादित्याह यमः- पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । सन्ध्यां प्रतिग्रहं होमं श्राद्धभुग् वर्जयेत् सदा ॥ सदेति, निमन्त्रणक्षणमारभ्य श्राद्धाहोरात्रपर्यन्तम् । सन्ध्या होमादौ विशेषो भविष्यतपुराणे -- ११२ दशकृत्वः पिवेदापो गायत्र्या श्राद्धभुग् द्विजः । ततः सन्ध्यामुपासीत जपेच्च जुहुयादपि ॥ इति । अयं निमन्त्रितनियमः पूर्वदिने श्राद्धदिने वा निमन्त्रणमारभ्य भवति निमन्त्रणप्रयुक्तत्वान्नियमजातस्येत्ति दिक् | इति निमन्त्रितब्राह्मण नियमाः । अथ कर्तृनियमाः । अक्रोधो निर्वृतः स्वस्थः श्रद्धावानत्वरः शुचिः । समाहितमनाः श्राद्धक्रियायामसकृद्भवेत् ॥ अकोधः = क्रोधशुन्यः | उपलक्षणमेतनमात्सर्यादीनाम् । निर्वृत्तः = सुप्रसन्नः । स्वस्थ =अव्याकुलीकृतचित्तः । असकृत् श्राद्धसमाप्तिपर्यन्तम् । विष्णुः- तत्र देवल:--- कोपं परिहरेत् नाश्रुपातयेत् न त्वरां कुर्यात् । मत्र यस्यामङ्गादिलोपः सम्भाव्यते ताइशी त्वरा निषिध्यते । प्रयोगप्राशुभावस्तु विध्यनुमत एवेति न निषिध्यते । पैठीनसिः- श्राद्धे सत्यं चाक्रोध च शौचं च त्वरांच प्रशंसति । वाराहपुराणे --- दन्तकाष्ठं च विसृजेत् ब्रह्मचारी शुचिर्भवेत् । दन्तप्रक्षालनार्थ दन्तकाष्ठं नादयादित्यर्थः । ब्रह्मचर्य चाष्टप्रका- रमैथुनवर्जनम् । तदाह गोभिलः । स्मरण कीर्तन केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ।