पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

कर्तृनियमाः । केलि:= स्त्रिया सह क्रीडा, आफलप्राप्तेः सुरतसम्पादनं क्रियानिष्पत्तिः । अष्टाङ्गम् = अष्टप्रकारम् | व्यासः- श्राद्धे य च नियमे नाद्यात् प्रोषितभर्तृका । श्राद्धकर्तुनिषेधोऽय न तु भोक्तुः कदाचन || दन्तकाष्ठनिषेधे सति कर्तव्यं विशेषमाह व्यासः- अलाभे दन्तकाष्ठानां निषिद्धायां तथा तिथौ । अपां द्वादशगण्डूषैर्विदध्याइन्तघावनम् ॥ इति । आदित्यपुराणे - तदहस्तु शुचिर्भूत्वाऽक्रोधनोऽत्वरितो भवेत् । अप्रमत्तः सत्यवादी यजमानोऽथ वर्जयेत् । अध्वानं मैथुनं चैव श्रम स्वाध्यायमेव च ॥ तदहः = श्राद्धीयेऽहनि । अध्वशब्देन लक्षणया सीमातः परस्तात् गमनं कथ्यते । श्रमो=भारवाहनादिजन्य क्लेशः । स्वाध्यायशब्देनाध्ययनाध्यापने विवक्षिते । वृद्धमनुः, निमन्त्रष विप्रांस्तदहर्बजयेन्मैथुनं क्षुरम् । प्रमत्ततां च स्वाध्यायं क्रोधाशौचं तथानृतम् ॥ क्षुर=क्षुरकर्म । जावाल:--- ताम्बूलं दन्तकाष्टं च स्नेह स्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकर्ता तु वर्जयेत् ॥ स्नेहस्नानम्=अभ्यङ्गस्नानम् | अभोजनम् = उपवासः | आवश्यकोपवासे प्राप्त पितृसेवितमात्रायोपवसेत् । तथा च श्रुतिः "अवधेयमेव तत्रैव प्राशिनं तत्रैवाऽप्राशितम्” इति । निमन्त्रित ब्राह्मण परित्यागे दोषमाह नारायणः । केतनं कारयित्वा तु निवारयति दुर्मतिः । ब्रह्मवध्यमवाप्नोति शूद्रयोनौ च जायते ॥ एतस्मिनेनास प्राप्ते ब्राह्मणो नियतः शुचिः | यतिचान्द्रायणं कृत्वा तस्मात् पापात् प्रमुच्यते ॥ अयं च निषेधोऽदुष्टब्राह्मणत्याग इति बोध्यम् । यति चान्द्रायणं नाम चान्द्रायणविशेषः । श्राद्धकर्ता च निम १५ वी० मिश्