पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- त्रणमारभ्याऽऽश्राद्ध समाप्तेराहारो वर्जनीय इत्याहापस्तम्बः, 'आरम्भे वाभोजनमासमापनादिति' | गुरुतरकार्यव्यासङ्गादिना स्वयं श्राद्धं कर्तुमशक्नुवन् यदि कदाचित पुत्रादिना श्राद्धं कारयेत् तदानेन श्राद्धाधिकारिणा च नियमा अनुष्ठेया इत्युक्त वाराहपुराणे | न शक्नोति स्वयं कर्तुं यदा ह्यनवकाशतः । श्राद्ध शिष्येण पुत्रेण तदाम्येनाऽपि कारयेत् || नियमानाचरेत् सोऽपि विहितांश्च वसुन्धरे । यजमानोऽपि तान् सर्वानाचरेत्सुसमाहितः || ब्रह्मचर्यादिभिर्भूमि ! नियमैः श्राद्धमक्षयम् | अन्यथा क्रियमाणं तु मोघमेव न संशयः ॥ भूमीति सम्बोधनम् । एते च नियमाः श्राद्धभुक्तानपाकान्तं कर्तव्याः । तदाह लौगाक्षिः- बिनीतः प्रार्थयन् भक्त्या विधानामन्त्र्य यश्नतः । श्राद्धं भुक्त्वान्नपाकान्तं नियमानाचरेत्ततः । इति श्राद्धकर्तृनियमाः । अथोभयनियमाः । तत्रादित्यपुराणे - तां निशां ब्रह्मचारी स्यात् श्राद्धकृत् श्राद्धिकैः सह । अन्यथा वर्तमानौ तौ स्यातां निरयगामिनौ ॥ पद्मपुराणे | हारीतः । पुनर्भोजनमध्वानं भारमायासमैथुनम् । श्राद्धकृत श्रद्धभुक् चैव सर्वमेतद्विवर्जयेत् || स्मयं व कलहं चैव दिवा स्वापं तथैव च । आमन्त्रिता आमन्त्रयिता च शुचयस्तां रात्रि वसेयुः । शुचयो = मैथुन कामक्रोधादिरहिताः । मनुर्यमञ्च - निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा । न च च्छन्दांस्यधीयीत यस्य श्राद्धं च तद् भवेत् ॥ यस्य च तत् कर्तव्यं श्राद्धं भवेत्लोऽपि नियतात्मा भवेदित्यर्थः । विष्णुपुराणे । ततः क्रोधव्यवायादीनायासं च द्विजैः सह । यजमानो न कुर्वीत दोषस्तत्र महानयम् ॥ 4