पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२५

एतत् पृष्ठम् परिष्कृतम् अस्ति

कर्तृभोक्तृनियमाः । अयम् = नियमाकरणरूपो महान् दोष इत्यर्थः । तत्र=क्रोधव्यवायादौ, आयाथा। श्राद्धे नियुक्तो भुक्त्वा वा भोजयित्वा नियुज्य च | व्यवायी रेतसो गर्ते मज्जयत्यात्मनः पितॄन् || नियुको निमन्त्रितो ब्राह्मणः श्राद्धभोजनात् प्राक् श्राद्धभोजनो त्तरकाल वा व्यवायी मैथुनकर्ता यदि भवति तदा आत्मनः स्वस्य पितॄन् रेतोगर्ते मजयेत् । एवं श्राद्धकर्ताऽपि नियुज्य निमन्त्र्य ब्राह्मण भोजनात् पूर्व भोजयित्वा (१) ब्राह्मणभोजनानन्तरमपि वा भुक्तानपा. नपरिणामावधि यदि व्यवायी स्यात् तदा सोऽपि तमेव दोषं प्राप्नुयात् । प्रचेताः-- स्यादनपरिणामान्तं ब्रह्मचर्य द्वयोस्ततः । अन्नैपरिणामान्तं = भुक्तान्त्रपरिणामान्तम् । तदाह बृहस्पति' । भुक्तानपारणामान्तं नियमान विवर्जयेत् । निषिद्धं कुर्वतां दोषस्तद्वद्वैधमकुर्वताम् ॥ इति । वैधं विहितम् । वायुपुराणे | श्रद्धदाता च भोक्ता च मैथुनं यदि गच्छतः । पितरस्तु तयोर्मासं रेतोऽश्नन्ति न संशयः ॥ उमयोर्नियमानुष्ठाने हेतुर्हारीतेनोक्तः । पूर्वेधुरामन्त्रितान् विप्रान् पितरः संविशन्ति वै । यजमानं च तां रात्रि वसेयुर्नियतास्ततः ॥ कात्यायनः । तदहः शुचिरकोधनो ऽत्वरितो ऽप्रमत्तः सत्यवादी स्यात् अध्वमैथुनश्रमस्वाध्यायांश्च वर्जयेत् आवाहनादि वाग्यत ओपस्पर्श नात्, आमन्त्रिताश्चैवम् । आवाहनादि = आवाहनप्रभृति | ओपस्पर्शनात= उपस्पर्शनपर्यन्तम् । श्रासूकर्ता वाग्यतो मौनी स्यात् । उपस्पर्शनशब्देन कात्यायनसुत्रोकं विसर्जनान्ते जलस्पर्शनं विवक्षितम् । आमन्त्रिताश्चैवमिति | शुचि त्वादियुक्ता आवाहनादि उदस्पर्शनपर्यन्तं वाग्यताश्च भवेयुरित्यर्थः । इति उभयनियमाः । (१) एतच भोजयित्वेस्यस्यैव विवरणं बोध्यम् ।