पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- अथ निमन्त्रितब्राह्मणानां श्राद्धभोजने नियमा । तत्र विष्णुः । अवनीयुर्ब्राह्मणा न सोपानत्का न पोठोपनिहितपादाः । उपानहा= चर्मपादुके | पीठात् बहिः कृतपादा अश्नीयुरित्यर्थः । प्रभासखण्डे । यश्च फूत्कारवद् भुङ्के यश्च पाणितले द्विजः । न तदश्नन्ति पितरो यश्च वायुं समुत्सृजेत् ॥ फूत्कारवत = फूत्कारादिशब्दवत् । यश्च पाणितल इति=पाणितले ग्रास गृहीत्वा न भोक्तव्यम्, तेनाङ्गुल्यग्रसग्रहणं कर्तव्यमिति विवक्षितम् । वायुसमुत्सर्जनम्=अपानवायूत्सर्जनम् | भोजने अन्ननिन्दादि न कर्तव्य मित्याह प्रचेताः | पीत्वापोशानमश्नीयात् पात्रे दत्तमगर्हितम् । सर्वेन्द्रियाणां चापल्यं न कुर्यात् पाणिपादयोः ॥ अत्युषणं सर्वमनं स्याद् भुञ्जीरंस्ते च वाग्यताः । न च द्विजातयो ब्रूयुर्दात्रा पृष्ठा हविर्गुणान् || सर्वेन्द्रियाणां चापल्यं = भोजनार्थव्यापारातिरिक्तव्यापारः, इन्द्रि सग्रहणेन पादयोर्ब्रहणे सिद्धे पुनस्तद्ग्रहणं पाणिपादचापल्यमाधिक दोषजनकमिति शापनार्थम् । अत्युष्णम् = ईषदु॰णम् । अत्युष्णस्य भोक्तुमशक्यत्वात् । वाग्यताः=वाग्व्यापाररहिताः । तेन शब्दोचारण न कर्तव्यमित्यभिप्रेयते । दात्रेत्युपलक्षणम् अन्येनापि पृष्टा हविर्गुणान् श्राद्धीयानगुणान्न ब्रूयुः | वाग्यतानामप्रसक्तं हविर्गुणवचनं न निषेध्यमिति चेदभिनयादिनापि हविर्गुणप्रकाशनं न कर्तव्यमित्येतदर्थत्वाद स्य वचनस्य । ततश्च ब्रूयुरिति लक्षणया प्रकाशयेयुरिति व्याख्येयम् । अनिरपि । १ अंकारेणापि यो ब्रूयाद्धस्ताद्वापि गुणान् वदेत् । इति वर्जनीयाधिकारे हस्तग्रहणं कुर्वन् इसमेवार्थमभ्यसूचयत् । देवलः । स्वन्नपानकशीतोदं ददद्भ्यो ह्यवलोकितः | वक्तव्ये कारणे संज्ञां कुर्वन् भुञ्जीत पाणिना ॥ अस्य श्लोकस्यार्थ, हेमाद्रौ इत्थं विवृतः, अपेक्षानुसारेणान्न पानशीतलवायदिदातृभिरपेक्षां ज्ञातुमवलोकितः क्षुत्पिपासालक्षणे