पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२७

एतत् पृष्ठम् परिष्कृतम् अस्ति

निमन्त्रितब्राह्मणानां भोजननियमाः । ११७ अपेक्षादेः कारणे वक्तव्ये पाणिना संज्ञासङ्केतमपेक्षादिसुचकं कुर्वन् भुञ्जीतेति । अत्रि । यावदन्नं भवत्युष्णं यावदश्नन्ति वाग्यताः । तावदश्नन्ति पितरो यावन्त्रोक्ता हविर्गुणाः ॥ ( अ० ३ श्लो० २३७ ) हुकारेणापि यो ब्रूयात् हस्ताद्वाऽपि गुणान् वदेत् | भूतलाबोद्धरेत् पात्रं मुञ्चेद्धस्तेन वा पिवन् || प्रौढपादो बहिःकक्षो बहिर्जानुकरोऽथवा । अङ्गुष्ठेन विनाशनाति मुखशब्देन वा पुनः ॥ पीत्वाऽवशिष्टतोयानि पुनरुद्धृत्य वा पिबेत् । खादितार्थान् पुनः खादेन मोदकानि फलानि वा ॥ मुखेन वा धमेदन्नं निष्ठीवेद्भाजनेऽपि वा । इत्थमश्नन् द्विजः श्राद्ध हत्वा गच्छत्यधोगतिम् ॥ पात्रमित्यस्य मुञ्चेदित्यत्राप्यन्वयः । प्रौढपादस्तु- आसनारूढपादस्तु प्रौढपादः स उच्यते || इति भविष्यपुराणेऽभिहितः । बहिःकक्षो= बहिर्भूतकक्षद्वयः । वायुपुराणेऽपि । यावन्न स्तूयते चान्नं यावदोषण न मुञ्चति । तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः || प्रभासखण्डे । रसा यत्र प्रशस्यन्ते भोक्तारो बन्धुगोत्रिणः । राजवार्तादिसंक्रन्दो रक्षःश्राद्धस्य लक्षणम् ॥ भोकारो=बन्धुगोत्रिणः | पित्रादिस्थाने भोकार इत्यर्थः । श्राद्ध- शेषभोजनं तु तेषां विहितमेव | रसशंसादि, रक्षःश्राद्धस्य लक्षण सूचकम, तत् आद्धं पितृतृप्तिकरं न भवतीत्यर्थ: । हविर्गुणप्रशंसा- निषेधस्तु श्राद्धसमाप्तेः पूर्वमेवेत्यभिप्रेत्याह बृद्धवशिष्ठ, श्राद्धावसाने कर्तव्या द्विजैरन्नगुणस्तुतिः । निगमः, मानपानादिकं श्राद्धे वारयेन्मुखतः कचित् । अनिष्टत्वाद् बहुत्वाद्वा वारणं हस्तसंज्ञया ॥