पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्रद्धप्रकाशे- अनिष्टत्वात्=अनपेक्षितत्वात् । अपेक्षितस्याऽपि वा पात्रस्थस्य बहुत्वात् यदा अन्नादि वारयेत् तदा न मुखतः - न शब्दप्रयोगेण, किन्तु हस्तसंज्ञया हस्तसंकेतेनेत्यर्थः । शङ्खलिखितौ । ब्राह्मणा अन्नगुणदोषौ नाभिवदेयुः, नातृप्तं ब्रूयुरन्योन्यं न प्र शंसेयुरन्नपान न प्रभूतमिति वदेयुरन्यत्र हस्तसंज्ञया । पात्रे प्रभूत मन्नमस्त्यन्यन्न परिवेष्यमिति भोक्तृभिर्न वक्तव्यं किं तु हस्तसंकेतेन सुचनीयमित्यर्थः । अपेक्षित चावश्यं याचनीयमेवेत्याह वृद्धशातातपं । अपेक्षितं याचितव्यं श्राद्धार्थमुपकल्पितम् । न याचते द्विजो मूढः स भवेत् पितृघातकः ॥ मनुः । यद्वेष्टितशिरा भुङ्के यद् भुङ्क्ते दक्षिणामुखः । सोपानत्कश्च यद् भुते तद्वै रक्षांसि भुञ्जते || ( अ० ३ लो० २३८ ) वेष्टनमुष्णीषादिना | अत्र दक्षिणमुखताया निषेधात् वचना स्तरविहितोदङ्मुखताया असम्भवे प्रतिनिधित्वेन दिगन्तराभिमुखतेति अवसीयते, निषिद्धस्य प्रतिनिधित्वानुपपत्तेः । पात्रोद्धरणे दोष उक्तो वाराहपुराणे । उद्धरेद्यदि पात्रं तु ब्राह्मणो ज्ञानवर्जितः । हरन्ति राक्षसास्तस्य भुखतोऽन्नं च सुन्दरि ॥ भुजानैः बुद्धिपूर्वमितरेतरस्पर्शो न कर्तव्य इत्युक्त वायुपुराणे । श्राद्धे नियुक्ता बे विप्रा दम्भं क्रोधं च चापलम् । अन्योन्य स्पर्शनं कामाद्वर्जयेयुर्मदं तथा ॥ प्रमादादन्योन्यस्पर्शे किं कर्तव्यमित्यपेक्षित आह शङ्खः । श्राद्धपकौ तु भुखानो ब्राह्मणो ब्राह्मण स्पृशेत् | तदनमत्यजन् सुक्ता गायत्र्यष्टशतं जपेत् ॥ ब्राह्मण भुञ्जानम् । वशिष्ठः । यमः नियुतस्तु यदा श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावन्नरकमृच्छति ॥ नियुक्तश्चैव यः श्राद्धे यत्किञ्चित परिवर्जयेत् । पितरस्तस्य तं मासं नैराश्यं प्रतिपादरे ॥ नैराश्यम्=अनशनम् ॥