पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

निमन्त्रितब्राह्मणानां भोजननियमाः । प्रचेताः न स्पृशेद्वामहस्तेन भुञ्जानोऽन्ने कदाचन । न पादौ च शिरो वस्ति न पड़ा भाजनं स्पृशेत् ॥ वस्ति = मूत्रपुरीषस्थानम्| वसिष्ठः

उभयोर्हस्तयोर्मुक्तं पितृभ्योऽनं निवेदितम् |

तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ॥ तस्मादशून्यहस्तेन कुर्यादन्नमुपागतम् । भाजनं वा समालभ्य तिष्ठेदोच्छेषणाद् द्विजः ॥ उभयोर्ब्राह्मणहस्तयोरन्यतरेणापि यदा तदनमनधिष्ठितं भवति तदन्तरालमसुराः सर्वदा प्रतीक्षन्ते, लब्धान्तराञ्च तदशमपहरन्ती- त्यर्थः । तस्मात् पितृभ्यो निवेदितमन्नं भोजनसमाप्तिपर्यन्तं बामह. स्तेमाशून्यं कुर्यात् कण्डूयनाद्यर्थ वामहस्तव्यापारसमये तु दक्षिण हस्तेन भाजनं समालभ्य वर्तेत इति तात्पर्याार्थ इति हेमाद्री व्याख्या | अन्ये त्वेवं व्याचक्षते अन्न मुभयोईस्तयोरन्यतरेणापि यथा मुक्तं न भवति तथा कर्तव्यम् । ततश्च माजनस्थेऽने दक्षिणस्य व्यावृतो तेनैवाश्रममुक्तं भवति, दक्षिणव्यावृत्यमावे तु उक्त प्रचेतोवाक्येन वामेन हस्तेनाशस्पर्शस्य निषेधाद् वामेन भाजनं समालभ्य वर्तते । क्वचित् उभयोः शास्त्रयोर्मुकमिति पाठः । तत्र शास्खयोर्हस्तयो- रित्येवार्थ । जातूकर्ण्योsपि, भाजने परिशिष्टानं हस्तेन ब्राह्मणः स्पृशेत् । रक्षोभ्यस्त्रायते यस्मात् धरणीयं प्रयत्नतः ॥ यस्मात् स्पृशन् ब्राह्मणो रक्षोभ्यः श्रद्धानं त्रायते तस्मादित्यर्थः । "ब्राह्मणो हि रक्षसामपहन्ता" इति शतपथश्रुतेः । देवतोदेशनान त्यागात् प्राकू न परिविष्टानं हस्तेन स्प्रष्टव्यमित्याहात्रिः । असङ्कल्पितमन्नाद्यं पाणिभ्यां य उपस्पृशेत् । अभोज्यं तद् भवेदनं पितॄणां नोपतिष्ठते ॥ असंकल्पितं=देवतोद्देशेनात्यक्तम् । निगमः - मांसापूपफलेक्ष्वादि दन्तच्छेदं न भक्षयेत् । प्रासशेषं न पात्रेऽस्येत पीतशेषं तु नो पिबेत् ॥