पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- हस्तेन मांसादि धृत्वा स्वल्पं दन्तैरिछावा न भक्षयेत् । नास्येत्य न निक्षिपेत् । प्रचेताः -- दन्तच्छेदं हस्तपानं वर्जयेन्चातिभोजनम् । हस्तपानं = हस्तेन जलादिपानम्, न कुर्यादित्यर्थः ॥ परिशिष्टे यच पाणितले दत्तं यच्चान्नमुपकल्पितम् । एकीभावेन भोक्तव्यं पृथक्भावो न विद्यते ॥ पाणितले दत्तमग्नौकरणान्नम्, उपकल्पितं भोजनपात्रेषु पित्राद्यु. हेशेन निहितं, तत् उभयमपि एकीकृत्य मिश्रयित्वा भोक्तव्यम् । जमदग्निः । न च्छिन्चुर्नावशेषयेयुः । छेदनं =दन्तच्छेदनम् । नावशेषयेयुः तृप्तेः प्राक् क्रोधादिनानं न त्यजे युरित्यर्थः । नदाह सुमन्तुः | आतृप्तेर्भोजनं तेषां कामतो नावशेषणम् | तृप्तौ जातायां तु किश्चिदवशेषणयिम् । तदाह जमदग्निः । अन्यत् पुनरुत्स्रष्टव्यं तस्यासंस्कृतप्रमीतानां भागधेयत्वात् अन्यद्-दध्यादिभ्यो निरविशेषभोज्येभ्यः । भोजनपात्रेण जलं न पिबेदित्याह । शातातप । अर्धभुक्ते तु यो विप्रस्तस्मिन् पात्रे जलं पिबेत् । यद् भुक्तं तत् पितॄणां तु शेषं विद्यादयासुरम् ॥ इति श्राद्धभोक्तृनियमा । अथ भोजयितृधर्माः । तत्र याज्ञवल्क्यः । ( अ० १ श्रा० प्र० श्लो० २४० ) अन्नमिष्ट हविष्यं च दद्यादक्रोधनोऽत्वरः । इष्टं ब्राह्मणानां, स्वस्थ, उद्देश्यपित्रादीनां च, वाक्चापल्यराईनानामपि ब्राह्मणानां हस्त संकेतादिना यद्यदिष्टं जानयात्तत्तद्दद्यादित्यर्थः। अपेक्षिताऽप्रदाने दोषमाह - वृद्धशातातपः । अपेक्षितं यो न दद्यात् श्राद्धार्थमुपकल्पितम् । अधः कृच्छासु घोरासु तिर्यग्योनिषु जायते ॥