पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

भोजयितृनियमाः मनुः । ( अ० ३ श्लो० २३३ ) हर्षयेत् ब्राह्मणांस्तुष्टो भोजयेश्वाशन शनैः । अन्नाद्येनासकृबैनान् गुणैश्च परिचोदयेत् ॥ भोजयेश्चाशन शनैरिति=मन्दं मन्दं भोक्तव्यमिति ब्राह्मणान् प्रेर येदित्यर्थः । तथा, भोजयिनियमाः । यद्यद्रोचेत विप्रेभ्यस्त तद्दद्यादमत्सरः | ब्रह्मोद्याश्च कथाः कुर्यात् पितॄणामेतदीप्सितम् ॥ ब्रह्मोद्याः = कश्चिदेकाकी चरतीत्याद्याः । अथवा ब्रह्मप्रधाना मन्त्रा र्थवादादय इति हेमाद्रौ । ब्राह्मणान् हविर्गुणदोषौ न पृच्छेदिस्याः- श्रद्धे नियुक्तान् भुञ्जानान् न पृच्छेलवणादिषु | उच्छिष्टाः पितरो यान्ति पृच्छतो नात्र संशयः ॥ दातुः पतति बाहुर्वै जिह्वा भोक्तुस्तु भिद्यते । एवं च लवणादिन्यूनाधिकभावस्य ज्ञानार्थे न ब्राह्मणाः प्रष्टय्याः, किन्तु ब्राह्मणकत हस्तसङ्केतादिना जानीयादित्यर्थः । न च लवणा दि भुञ्जानेभ्यो दद्यात् | "दातुः पतति" इत्यादिना दोषभवणात्। स्मृत्यर्थसारे - ओदनसुपपायसमैक्ष्यपानादिकं च बहु परिवेष्यम् | हिङ्गुशुण्ठीपिप्पलामरीचानि द्रव्यसंस्कारार्थानि श्राद्धे स्युः प्रत्यक्षेण न भक्ष णीयानीति | यमः- निराकारेण यद् भुक्तं परिविष्टं समन्युना | दुरात्मना च यद् भुक्तं तद्वै रक्षांसि गच्छति ॥ अवेदव्रत चारित्रास्त्रिभिर्वर्णैर्द्विजातयः । मन्त्रवत् परिविष्यन्ते तद्वै रक्षांसि गच्छति ॥ विधिद्दीनममृष्टानं मन्त्रहीनमदक्षिणम् । अश्रद्धया हुतं दत्तं तद्वै रक्षांसि गच्छति ॥ मनुः- - नास्त्रमापातयेज्जातु न कुप्येनानृतं वदेत् । न पादेन स्पृशेदशं न चैतदषधूनयेत् ॥ १६ वी० मि० (अ० ३ श्लो० २२९)