पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ वीरमित्रोदयस्य श्राद्धप्रकाशे- अनं = रोदनम् | नानृतं बदेदिति पुरुषार्थतया निषिद्धस्याप्यनृतवदनस्य कर्मार्थोऽयं निषेधः । एवं न पादेन स्पृशेदनमित्येवमादिष्वपि निषेधेषु बोद्धव्यम् । ब्रह्माण्डपुराणे, न चानुपात येज्जातुन (१) शुताङ्गिरमीरयेत् । न चोद्वीक्षेत भुखानान् न च कुर्वीत मत्सरम् ॥ शुफां= शोकवतीम् | न चोद्रीक्षेत अनवरतमिति शेषः । अमः-- इष्टं निवेदितं दत्तं भुक्तं जप्तं तपः श्रुतम् । यातुधानाः प्रलुम्पन्ति शौचभ्रष्टं द्विजन्मनः ॥ तथा क्रोधेन यद्दत्तं भुक्तं यत्वरया पुनः । उभयं तद्विलुम्पन्ति यातुधानाः सराक्षसाः ॥ पितॄनावाहयित्वा तु नायुक्तप्रभवो भवेत् । तस्मानियम्य वाचं च क्रोधं च श्राद्धमाचरेत् ॥ न क्रोधं कस्य चित् कुर्यात् कस्मिंश्चिदपि कारणे । अक्रुद्ध परिविष्टं हि श्राद्धे प्रीणयते पितॄन् ॥ शौचभ्रष्ट = शौचरहितेन कृतं वृथा भवतीत्यर्थः । अयुतप्रभवः = अयुक्तं नियमायोगः यथेष्टाचरणं तस्य प्रभव उत्पत्तिर्यस्मादिति स तथोक्तः । कस्मिंश्चिदपि कारणे=क्रोध कारणे सतीत्यर्थः । विष्णुः । जान्नमासनमारोपयेश पदा स्पृशेत्, नावक्षुतं कुर्यात् । आसन ग्रहणं आधारोपलक्षणार्थम् । अन्नम्-अन्नपात्रम् | यन्त्रादिषु नारोपयेदित्यर्थः । नावक्षुतं कुर्यात् =अनोपरि क्षुतं न कुर्यादित्यर्थः । कात्यायनः । देवलः । श्रद्धान्वितः श्राद्धं कुर्वीत शाकेनाऽपि । नाश्रु वा पातयेच्छ्राद्धे न जल्पेश इसेन्मिथः । म विभ्रमेश संकुभ्येनोविजेच्चात्र कर्हि चित् || प्राप्ते हि कारणे श्राद्धे नैव क्रोधं समुच्चरेत् । आश्रितः स्विनगात्रो वा न तिष्ठेत् पितृसन्निधौ ॥ (१) शुष्कामिति कमलाकरोद्धृतः पाठः ।