पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्राचीनावीतयज्ञोपवर्तिविचारः । न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् | तद्रूपाः पितरस्ते हि समायान्तीति वैदिकम् ॥ कोषं न समुच्चरेश कुर्यात् । आश्रितः = भित्तिस्तम्माद्याश्रित्याव स्थितः । श्येनका कादिप्रतिषेध निषेधस्ती र्थश्राद्धविषयः, अन्यथा 'क्रव्यादाः पक्षिणः श्राद्धं नेक्षेरन्' इत्यादिवचनविरोधः । तीर्थश्राद्धे च काकादिनिवारणं न कर्तव्यमिति वचनान्तरवशेन प्रमितमिति हेमाद्रौ । इति भोजयितृनियमाः । इति श्राद्धीयनियमाः । १२३ अथ प्राचीमावीत यज्ञोपवीतविचार । तत्र श्राद्धे यत्तावद नत्यागादि प्रधानं, तत् "प्राचीनावतं पितॄणाम्" इति श्रुतेः, प्राचीनावतिनैव कार्यम, तद्भूतास्तु पदार्था द्विविधाः, विहिता अविहिताञ्च, द्विविधा अपि पुनस्त्रिविधाः, पितृमात्रसम्ब- न्धिनो, देवमात्रसम्बन्धिन, उभय सम्बन्धिनश्चेति । तत्र ये तावद्वि- हितद्रव्याद्यर्थाक्षिप्ता: क्रयादयस्तेषां श्राद्धाङ्गत्वाभावान्न कोऽपि श्राद्धकतो नियमः । “नित्योदकी नित्ययज्ञोपवीती" इत्यादिना परं तत्र यज्ञोपवीतं प्राप्यते । एवं येषु केवलदेवसम्बन्धिष्वपि पदार्थेषु यज्ञोपवीतमेव "यज्ञोपवीतिना कार्य दैवं कर्म विज्ञानता" इत्यादिवचनैः प्राप्तं तेष्वपि न पितृदेवत्यश्राद्धाङ्गत्वमात्रेण प्राचीनावीतप्रसक्तिः । येषु तु केवलपितृसम्बन्धिषु न साक्षाद्यज्ञोपवीतप्रसक्तिः, येषु तु केवलपितृसम्बन्धिषु न साक्षाद्यज्ञोपवीतविधानं तेषु प्रयो गविधिबलात् प्रधानद्वारा प्राप्तं प्राचीनावीतमेव कार्यम् । यत्तु देवपितृसाधारणं यथा पाकप्रोक्षणादि, तत्र यद्यपि सामान्यतो देवसम्बन्धित्वेन यज्ञोपवीतमपि प्राप्यते तथापि प्रधानधर्म प्राचीनावीतमेव युतः । वस्तुतस्तु एतादृश स्यन दैवत्वम्, अन्यसा- पेक्षत्वेन "दैवं कर्म विजानता" इत्यत्र तद्धितोस्पस्य योगात् । मन्वेषं निरामिषसकृद्भोजनेऽपि प्राचनावीतं प्रसज्येत, तस्व पिज्यत्वात्, नचेष्टापत्तिः, शिष्टाचारविरोधादिति चेत् । अत्र केचित् । रागतः प्राप्तभोजनानुवादेन गुणमात्रं विधीयते म भोजनमपि, अतश्च भोजने न तत् प्रसक्तिरिति । तन्न । निरामिपरच सकृत्वा धने कगुणोपादानात् वाक्यभेदापत्तेर्भोजनस्यैव विघेवत्वात् । तस्मादेषं वर्णनीयं निरामिषसकन्द्रोजनस्थ सहङ्गोज