पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- नत्वसामान्यादेकभक्तविकारत्वम् । अत एव एकभक्तशब्दप्रयोगस्तत्र श्रीदत्तादीनाम् । एकभकस्य च नित्योदकीत्यनेन यज्ञोपवी तानाङ्गकत्वात्, अत्राप्यतिदेशेन तदेव प्राप्यते । न चौपदेशिकेनाति देशे कस्य बाघ इति वाच्यम् । प्रयोगविष्याश्रितस्यातिदेशिकापेक्षया दुर्बलत्वात् तस्य प्रयोगबहिर्भूतत्वाच । तथा च पाके न तव प्रसक्तिः | तस्य प्रायशः पत्न्यादिकर्तृत्वेन तत्र प्राचीना वीतासम्भवात् । यजमानकर्तृके पाके प्राचीनावीतविधाने नित्यानित्य संयोगविरोधापत्तेरिति हेमाद्रिः । , १२४ वस्तुतस्तु पाके यजमानस्यैव मुख्यत्वात् पत्म्यादेस्तदभावे प्रतिनिधित्वस्य वक्ष्यमाणत्वान्न नित्यानित्य संयोगप्रसक्तिः, अन्यथा पुत्रकर्तृको वैदेहिकेऽपि न प्राचीनावीतत्वप्रसङ्गः तत्रापि तदभावे पत्न्यादे: कर्तृत्वात् तस्माद्यदि तत्र यज्ञोपवीताचारस्तदा स एव शरणम्, नोचेत् प्राचीनावीतमेव साधु | तथा श्रद्धाभृतयोः स्नानाचमनयोरपि न प्राचनावतम् । अन्यथा तत्र तस्मिन्ननुष्ठीयमाने भाद्धविकृतिभूतायां प्रेतक्रियायामपि प्रावीनावीतप्राप्तौ प्रयोगवि घिबलात्तदङ्गस्नाने तत्प्राप्तेः, तत्र पुनः "एकवस्त्राः प्राचीनावीतिनः” इत्यादिना तद्विभ्यानर्थक्यप्रसङ्गात् । अङ्गान्तरपरिसंख्यार्थं स इति चेत् । शेषपारसंख्यापेक्षया शेषिपरिसंख्याया विधे- यगतत्वेन प्रधानाङ्गबाधाभावेन च वक्तुमुचितत्वात् । तस्मात् प्रेतक्रियायां प्राचीनावीतविधानात्तदतिरिक्तश्राद्धाद्यङ्गभूतस्ना. नाचमनयोर्यज्ञोपवीतमेवेति सिद्धम् । एवं प्राणायामेऽपि यज्ञोप वीसं कार्यम्, आचारात, प्रयोगबहिर्भूतत्वाच्च । श्राद्धसंकल्पपूर्वभाविजपस्तु यद्यपि प्रयोगबहिर्भूतत्वा दुपवीतिन एव प्राप्तस्तथापि अपसव्यं ततः कृत्वा मन्त्र जप्त्वा व वैष्णवम् । गायत्रीं प्रणवचापि ततः श्राद्धमुपक्रमेत् ॥ इति प्रचेतोषचनात प्राचीनावीतिनैष कार्यम् । परिवेषणं तु पितृ- पात्रेष्वपि उपवतिनैव कार्यम् । अपसव्येन मस्त्वशं ब्राह्मणेभ्यः प्रयच्छति । विष्ठामश्नम्ति पितरस्ते च सर्वे द्विजोत्तमाः ॥ इति कार्ष्णाजिनिस्मरणात् । अतियेस्तु सर्वे यज्ञोपवीतेनैव कार्यामिति हेमाद्रिः | पवमन्यत्रापि सर्वत्र ।