पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

यजमानजप्यानि । (१) यज्ञोपवीतिना सम्यगपसव्यमतन्द्रिणा | पित्र्यमानिधनात् कार्यं विधिविधर्मपाणिना ॥ ( अ० ३ श्लो० ३७९) इति मनुना कर्तव्यपदार्थोष्वेव प्राचीनावीतविधानात् । अत एव ब्राह्मणकर्तृकेष्वपि पदार्थेषु न प्राचीनावीतम् । श्राद्धकर्तारं प्रत्येव प्राचीनावीतविधिप्रवृत्तेः । एव श्राद्धशेष भोजनेऽपि न तत्, प्रयोगबहिर्भूतत्वादिति दिक् । अथ सामान्यतः श्राद्धेयपदार्थाः । कात्यायनः. शातावपः, दक्षिणं पातयेज्जानु देवान् परिचरन् सदा । पातयेदितरं जानुं पितॄन परिचरन् सदा ॥ प्रदक्षिण तु देवानां पितॄणामप्रदक्षिणम् । उदङ्मुखेन देवानां पितॄणा दक्षिणामुखः । देवानामृजवो दर्भाः पितॄणां द्विगुणाः स्मृताः ॥ अथ जप्यानि । १३५ तत्र तावद्यजमानजध्यानि | तत्र पद्मपुराणे | स्वाध्यायं श्रावयेत् पैत्र्ये पुराणानि खिलानि च । ब्रह्मविष्णवर्करुद्राणा स्तोत्राणि विविधानि च ॥ खिलानि= श्रीसुक्तमहानास्निकादीनि । एतानि भुञ्जानानू ब्राह्मणान् भावयेत् । मनु, स्वाध्यायं आवयेद पैध्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ ( अ० ३ श्लो० २३२ ) आख्यानानि = लौपर्णमैत्रावरुणपारिलवादीनि बाहच्ये पठ्यन्ते । इति- हासा= महाभारतादयः । अयं च जप उपवीतिना कार्यः । तथा च ब्रह्माण्डपुराणे । (१) प्राचीनावीतिनेति मनुस्मृतौ पाठः ।