पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः | प्रस्थिता दीर्घमध्वानं यूय तेभ्योऽवसीदत ॥ इति । समग्र सप्तव्याघाख्यानपउनासमर्थस्तु तत्संग्रहरूपमिदं श्लोक द्वयं पठेदिति हेमाद्रौ । १३८ नारदीयपुराणे | आख्यानानि पितॄणां च श्राद्धषक्षय्यतृप्तये । गाथाश्च पितृभिर्गीता भुञ्जानान् श्रावयेद् द्विजान् ॥ पितृगाथाश्च काश्चित प्रदश्यन्ते । आह विष्णुः । अथ पितृगीते गाथे भवतः । अपि जायेत सोऽस्माकं कुले कश्चिनरोत्तमः । प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः | मधूत्कटे तु यः श्राद्धं पायसेन समाचरेत् । कार्तिकं सकलं वापि प्राक्छाये कुञ्जरस्य वा ॥ इति । ग्रावरुक्यः । कुलेऽस्माकं स तस्तुः स्यात् यो मो दद्याज्जलाञ्जलिम् । नदीषु बहुतोयासु शीतलासु विशेषतः ॥ अपि जायेत सोऽस्माकं कुले कश्चिन्नरोत्तमः । गयाशीर्षे घंटे श्राद्धं यो नः कुर्यात् समाहितः ॥ इति । तथा बृहस्पतिः । काङ्क्षति पितरः पुत्रान्नरका पातभीरवः । गयां यास्यति यः कश्चिन् सोऽस्मान् सन्तारयिष्यति ॥ करिष्यति वृषोत्सर्गमिष्टापूर्त तथैव च । पालविष्यति गार्हस्थ्यं श्राद्धं दास्यति चाग्वहम् || वायुपुराणब्रह्माण्डपुराणयो । अत्र गाथा: पितृगीताः कीर्तयन्ति पुराविदः । तास्तेऽहं सम्प्रवक्ष्यामि यथावश्च निबोधत ॥ अपि मः स कुले जायेत् यो नो दद्यात् त्रयोदशीम् । पायसं मधुसर्पिच छायायां कुञ्जरस्य च । अजेन सर्वलोहन वर्षासु व मघासु च । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥ गौरी षाप्युद्धहेत् मार्यो नलिं वा वृषमुत्सृजेत् । इति ॥