पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धदेशनिरूपणम् उक्तसर्वप्रकारजपासम्भवे प्रकारान्तरमुकं मत्स्यपुराणे- अभावे सर्वविद्यानां गायत्रीजपमारभेत् ॥ इति । इति जप्यानि । अथ श्राद्धदेशाः । तत्र विष्णुधर्मोत्तरे । दक्षिणाप्रवणे देशे तीर्थादौ वा गृहेऽथवा | भूसंस्कारादिसंयुके श्राद्धं कुर्यात् प्रयत्नतः ॥ तीर्थ-ऋषिदेवतासेव्यं जलम् । आदिशब्देन ऋषिसेविताश्रमप रिग्रहः । भूसंस्कारो= गोमयोपलेपादिः । आदिपदात् केशाद्यपसारण परिग्रहः । तदुकं तत्रैव । गोमयेनोपलिप्तेषु विविकेषु गृहेषु च । कुर्याच्छ्राद्धमयैतेषु नित्यमेव यथाविधि || विवितेषु = पवित्रेषु । याज्ञवल्क्यः । (१) परिधिते शुचौ देशे दक्षिणाप्रवणे तथा । ( अ० १ श्रा० श्लो० २२७) परिश्रिते=परितश्छादिते । शुचौगोमयादिनोपलिप्ते । दक्षिणाप्रवणेद क्षिणोपनते देशे। स्वतो दक्षिणाप्रणत्वासम्भवे तु देशस्य यत्नतो दक्षिणाप्रवणत्वं कार्यम् । यमः । तथा च मनुः । शुद्धिं देशं विविक्कं तु गोमयेनोपलिप्य च । दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ (अ० ३ श्लो० २०६) रुक्षं कमिहतं विश्वं सङ्कीर्णानिष्टगन्धिकम् । देशं त्वनिष्टशब्दं च वर्जयेच्छ्राद्धकर्माणि ॥ रूक्षम्=अस्निग्धम् । क्लिनम् = सकर्दमम् | सङ्कीर्णम्=पदार्थान्तरै कीर्णम् । अनिष्टगन्धिकंपूतिगन्धिकम् | अनिष्ट शब्दम् = अश्राव्यशब्दम् । मार्कण्डेयः । बर्ज्या जन्तुमयी रूक्षा क्षितिः 'लुटा तथाग्निना ! अष्टदुष्टशब्दोग्रा दुर्गन्धा श्राद्धकर्माणि ॥ ( १ ) परिस्तृते, इति मुद्रितयाज्ञवल्क्ये पाठः ।