पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धदेशनिरूपणम् मत्स्यपुराणे नन्दाथ ललिता तद्वत् तीर्थ मायापुरी तथा । तथा चित्रपदं नाम ततः केदारमुत्तमम् ॥ गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम् । तीर्थ ब्रह्मसरस्तद्वच्छतद्सलिलोइमे || तथा । कृतशौच महापुण्यं सर्वपापनिषूदनम् । यत्रास्ते नरसिंहस्तु स्वयमेव जनार्दनः ॥ तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा । सङ्गमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा ॥ यमुना देविका काली चन्द्रभागा हृषद्वती। नदी धेनुमती पुण्या पारा वेत्रवती तथा ॥ नीलकण्ठमितिख्यातं पितॄन् तीर्थ द्विजोत्तमाः । तथा भद्रसरः पुण्यं सरो मानसमेव च ॥ मन्दाकिनी तथाऽच्छोदा विपाशा च सरस्वती । तीर्थे मित्रपदं तद्वद् वैद्यनाथं महाफलम् ॥ शिप्रानदी महाकालं तथा कालञ्जरं शुभम् । वंशोद्भेदं हरोद्भेद गर्तोद्भदं महाफलम् ॥ भद्रेश्वरं विश्नुपदं नर्मदाद्वारमेव च । गयापिण्डप्रदानेन सामान्याहुमहर्षयः ॥ ॐकारपितृतीर्थ च कावेरी कपिलोदकम् । संभेदं चण्ड वेगायास्तथैवामरकण्टकम् ॥ कुरुक्षेत्राच्छत गुणमस्मिन् स्नानादिकं भवेत् । शुकतीर्थ च विख्यातं तीर्थे सोमेश्वरं परम् ॥ सर्वव्याधिहरं पुण्यं फलं कोटिशताधिकम् । कायावरोहणं नाम तथा चर्मण्वती नदी । गोमती वरणा तद्वत्तीर्थमोशनसं परम् ॥ भैरव भृगुतीर्थ च गौरीतीर्थमनुत्तमम् । तीर्थ वैनायकं नाम वस्त्वेश्वरमतः परम् ॥