पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ वीरमित्रोदयस्य श्राद्धप्रकाशे- परं तथा पापहरं पुण्यं प्रतपती नदी | मूलतापी पयोष्णी च पयोष्णीसङ्गमस्तथा ॥ महाबोधिः पाटला च नगतीर्थमवन्तिका । तथा वेणानदी पुण्या महाशालं तथैव च ॥ महारुद्रो महालिङ्ग दशार्णा च नदी शुभा | शतरुद्रा शताहा च तथा विष्णुपदं परम् ॥ अङ्गारवाहिका तद्वन्नदौ तौ शोणघघरौ । कालिका च नदी पुण्या पितराधनदी शुभा ॥ पतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः । श्राद्ध मेतेषु यदन्तं तदनन्तफलं स्मृतम् || द्रोणी वादनदी वारा सरःक्षीरनदी तथा । द्वारकाकृष्णतीर्थ च तथार्बुदसरस्वती ॥ नदीं मणिमती नाम तथा च गिरिकर्णिका । धूतपापा तथा तीर्थ समुद्रो दक्षिणस्तथा ॥ गोकण गजकर्णश्च तथा च पुरुषोत्तमः । एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमुच्यते ॥ तीर्थ मधुकरं नाम स्वयमेव जनार्दनः । यत्र शार्ङ्गधरो विष्णुर्मेखलायामवस्थितः ॥ तथा मन्दोदरीतीर्थ यत्र चम्पा नदी शुभा | तथा सामलनामान महाशालवती तथा ॥ पयोगण्या दक्षिणे तीर्थे देवदेवेश्वरं तथा । कोटेश्वरं तथा देव रेणुकायाः समीपतः ॥ वक्रकोटं तथा पुण्यं तीर्थ नाम जलेश्वरम् । अर्जुन त्रिपुरेशं च सिद्धेश्वरमतः परम् ॥ श्रीशैलं शाङ्कर तीर्थ नारसिंहमतः परम् । महेन्द्रं च तथा पुण्यं तथा श्रीरङ्गसंज्ञितम् || एतेष्वपि सदा श्राद्धमनन्तफलमश्नुते । दर्शनादपि पुण्यानि सर्वपापहराणि वै ॥ तुझ्भद्रा नदी पुण्या तथा भीमरथी सरित् । भीमेश्वरं कृष्णवेणा कावेरी वज्जुला नदी ॥ नदी गोवरी नाम त्रिसन्ध्यातर्थमुत्तमम् ।