पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धदेशनिरूपणम् तीर्थ त्रैयम्बकं नाम सर्वतीर्यैर्नमस्कृतम् ॥ यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः । श्राद्धमेतेषु सर्वेषु दन्तं कोटिगुणं भवेत् ॥ स्मरणादपि पापानि व्रजन्ति शतधा द्विजाः । श्रीपर्णीच नदी पुण्या व्यासतीर्थमनुत्तमम् ॥ तथा मत्स्यनदीकारा शिवधारा तथैव च । भवतीर्थ तु विख्यातं पम्पातीर्थं च शाश्वतम् ॥ पुण्यं रामेश्वरं तद्वदेलापुरमलम्पुरम् । अङ्गारभूतं विख्यात मामर्दकमलम्बुसम् ॥ आम्रातकेश्वरं चैव तद्वदेकाम्रकं परम् । गोवर्द्धनं हरिश्चन्द्रं पुरश्चन्द्र पृथूदकम् ॥ सहस्राक्षं हिरण्याक्षं तथा च कदली नदी । रामाधिवासोऽपि तथा तथा सौमित्रिसङ्गतम् ॥ इन्द्रकीलं तथा नादं तथा च प्रियमेलकम् । एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि च । एतेषु सर्वदेवानां सान्निध्यं पठ्यते यतः ॥ दानमेतेषु सर्वेषु भवेत् कोटिशताधिकम् । बाहुदा च नदी पुण्या तथा सिद्धिवनं शुभम् ॥ तीर्थ पाशुपतं नाम तटी पर्वतका तथा । श्राद्ध मेंतेषु सर्वेषु दत्तं कोटिशतोत्तरम् ॥ तथैव पितृतीर्थ तु यत्र गोदावरी नदी | पुरलिङ्गसहस्रेण सव्येतरजलावहा || जामदग्न्यस्य तत्तीर्थ रामायतनमुत्तमम् । प्रतीकस्य भयाद्भिन्ना यत्र गोदावरी नदी || तीर्थ तव्यकव्यानामप्सरोयुगसंयुतम् । श्राद्धाशिकायें दानं च तत्र कोटिशताधिकम् || तथा सहस्रलिङ्ग च राघवेश्वरमुत्तमम् । चन्द्रफेना नदी पुण्या यत्रेन्द्रः खदितः पुरा ॥ निहत्य नमुचि शत्रु तपसा स्वर्गमाप्तवान् । तत्र दप्तं नरैः श्राद्धमनन्त फलदं भवेत् ॥ तीर्थन्तु पुष्करं नाम शालग्रामं तथैव च । १९ वी० मिश्र