पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धे विहितनिषिद्धदेशनिरूपणम् | कुर्याच्छ्राद्धमयैतेषु नित्यमेव यथाविधि । प्राग्दक्षिणां दिशं गत्वा सर्वकामचिकर्षिया ॥ अत्र च श्राद्धे प्रशस्तत्वेन कीर्तितानां नानादेशीय तीर्थानां स्वरूपाणि तत्तद्देशवासिभ्योऽधिगन्तव्यानि । अत्र च तीर्थादिदेशेषु मनन्त्यादिश्रवणाद् गुणफलसम्बन्धपरा एव तद्विधयो न तु तीर्थादीनामङ्गत्वपराः । अतश्च तदभावेऽपि न श्राद्धवैगुण्यमिति ध्येयम् । अथ निषिद्धदेशा | वायुपुराणे । त्रिशङ्कोर्वर्जयेद्देशं सर्वे द्वादशयोजनम् । उत्तरेण महानद्या दक्षिणेन तु कीकटम् ॥ देशस्त्रैशङ्कवो नाम श्राद्धकर्माणि वर्जितः । कारस्कराः कलिङ्गाश्च सिन्धोरुत्तरमेव च । प्रनष्टाश्रमवर्णाश्च देशा वर्ज्या: प्रयत्नतः || विष्णु । न म्लेच्छविषये श्राद्धं कुर्यात् । न च गच्छेत् । तथा- चातुर्वर्ण्य व्यवस्थानं यस्मिन् देशे न विद्यते । तं म्लेच्छदेशं जानीयादार्यावर्तमतः परम् (१) ॥ ब्रह्मपुराणे | परकीयगृहे यस्तु स्वान् पितृस्तर्पयेज्जडः । तद्भूमिस्वामिनस्तस्य हरन्ति पितरो बलात् ॥ अग्रभागं ततस्तेभ्यो दद्यान्मूल्यं च जीवताम् । गृह इति भूमिभागोपलक्षणम् । “पारक्यभूमिभाग" इति यमव चनात् । स्वीयभूमेरभावे कथं श्राद्धं कर्तव्यमित्याकाङ्क्षायामुच्यते । अप्रभागमिति । श्राद्धीयद्रव्यस्य प्रथममेकदेशमुद्धृत्य भूमिस्वामिपितृ- भ्यो दद्यात् । जीवतामिति = जीवत्सु भूमिस्वामिपितृषु मूल्यं दद्यादिति शूलपाण्यादयः । अन्ये चकारो वार्थे स्वामिपितृभ्यो अग्रभागं मूल्यं वा दद्यादित्याहुः । इदं च पितृभ्योऽग्रदानं पितृरीत्या कार्यमिति मैथिलाः । देवरीत्येति उपायकारः । (१) आर्यदेशस्ततः पर इति दानखण्डहेमाद्रौ पाठः ।