पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- अन्ये तु एतस्य श्राद्धाङ्गत्वात् पार्वणादिश्राद्धे पितृरीत्या नान्दी- मुखे तु देवरीत्येत्याहुः । इदं च श्राद्धारम्भात् प्राक् कार्यम् । परिवेषणात् प्राक्कार्यमिति उपायकारः । यमः । अटव्यः पर्वताः पुण्या नदीतीराणि यानि च । सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥ वनानि गिरयो नद्यस्तीर्थान्यायतनानि च । देवखाताश्च गर्ताश्च न स्वाम्यं तेषु विद्यते । इति श्राद्धदेशाः । अथ श्राद्धदेशादपासनीयानि द्रव्याणि | तत्र देवलः । हांनाङ्गः पतितः कुष्ठी व्रणी पुलकसनास्तिकौ । कुक्कुटा: सुकरा: श्वानो वर्ज्याः श्राद्धेषु दूरतः । षीभत्सुमशुचि न मत्त धूर्त रजस्वलाम् । नीलकाषायवसनं छिन्नकर्ण विवर्जयेत् । शस्त्र कालायसं सीसं मलिनाम्बरवाससम् ॥ अनं पर्युषितं वापि श्राद्धेषु परिवर्जयेत् । पुल्कसो =म्लेच्छविशेषः । नास्तिकः =परलोकत्रासशून्यः | सूकर.= विड्वराहः । बीभत्सु =जुगुप्सितः | छिन्नकर्णः = सन्धितकर्णः । इतरस्य हीनाङ्गत्वेनैव निषेधात | शस्त्रम्=क्षुरकादि । कालायसम्= लोहम् | सीसं== नागाण्यो धातुः । कालायसादिवत् पर्युषितमन्नमपि श्राद्धदेशल. शिहितं न कार्यम् | विष्णुः । न होनाङ्गाधिकाङ्क्षाः श्राद्धं पश्येयुः, न शूद्रा न पतिता न महारो गिणः, अयं च प्रकरणात श्राद्धाङ्गभूतो निषेधो, न हीनाङ्गादानां पुरु. बार्थः, फलकल्पनापत्तेः । आपस्तम्बः | श्वभिरपपात्रैश्च श्राद्धदर्शनं परिरक्षेत् । श्वमिरिति ब. हुवचनात् ग्रामसुकरादीनां तादृशानां ग्रहणमिति तद्भाध्यम् । अपपा त्रैः =अपपात्रगुणैः । परिरक्षेत्= निवारयेत् । उशनाः । विवराहमार्जारकुक्कुटन कुलशूद्ररजस्वलाशुद्रमतरका दूरम