पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धस्थानादपासनीयपदार्थनिरूपणम् । पनेतव्याः, श्राद्धप्रदेशादिति शेषः । मनुः । चाण्डालश्च वराहश्च कुक्कुटश्च तथैव च । रजस्वला च षण्डश्च नेक्षेरनशनतो द्विजानू ॥ होमे प्रदाने भोज्ये व यदेभिरभिवीक्षितम् । दैवे हविषि पित्र्ये वा (१) तद्गच्छत्यसुरान् हविः || ( अ० ३ इलो० २३९) पुनः स एव । १४९ ( अ० ३ श्लो० २४० ) ईक्षणमत्र सन्निधानस्याप्युपलक्षणम् | होमे =अग्निहोत्रादौ, ETI म्त्यादिहोमे वा | प्रदाने =मवादिदाने | भोज्ये= अष्टार्थे ब्राह्मणभोजने । दैवे इविषि= दर्शपौर्णमासादौ । पित्र्ये= श्राद्धे । यद्यपि च श्राद्धप्रकरणं तथापि वाक्येन तद् बाधित्वा होमादावय प्रतिषेधो यथा सन्तर्दने (२) | अभ्ये तु प्रकरणादेवं व्याचक्षते | होमे=अग्नीकरण होमे | प्रदाने पिण्डप्रदाने । भोज्ये=भोज्योपकल्पनदेशे | दैवे = विश्वेदेवसम्बन्धिनि । वाशद्वादन्यस्मिन्नपि स्थाने यदनादिकं तदित्यर्थः । घ्राणेन शुकरो हन्ति पक्षवातेन कुक्कुट | श्वा तु दृष्टिनिपातेन स्पर्शेना वरवर्णजः ॥ ( म० अ० ३ श्लो० २४१) (३) खओ वा यदि वाऽश्रोत्रः कारुः प्रेभ्योऽपि वा भवेत् । हीनातिरिकगात्रो वा तमप्यपनयंत्ततः ॥ ( म० अ० ३ श्लो० २४२ ) अवरवर्णजः = शुद्रः, तस्य द्विजातिश्राद्धे श्राद्धोपकरणस्पर्शप्रतिषे घोऽयं, नारमार्थे । प्रेष्य:=परिचारकः । हेमाद्रौ स्मृत्यन्तरे | कुक्कुटो विवराहश्च काकः श्वापि विडालकः । (१) तद् गच्छत्ययथातथमिति मनुस्मृतौ पाठः । (२) पूर्वमी० अ० ३ पा० ३ अवि० १६ सू० २४-३१ । (३) खजो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् । इति मनुस्मृतौ पाठः ।