पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- वृषलीपतिश्च वृषलः षण्डो (१) नारी रजस्वला ॥ एतानि श्राद्धकाले तु परिवर्ज्यानि नित्यशः । कुक्कुटः पक्षवातेन हन्ति श्राद्धमसंवृतम् || घ्राणेन विश्वराहश्च वायसश्च रुतेन तु | श्वा तु दृष्टिनिपातेन मार्जारः श्रवणेन तु ॥ वृषलपतिश्च दानेन चक्षुर्भ्यां वृषलस्तथा । छायया हन्ति वै षण्डस्पर्शेन च रजस्वला ॥ खञ्जः काणः कुणिः शिवत्री कारुः प्रेष्यकरो भवेत् । ऊनाङ्गो वातिरिक्ताङ्गस्तमाशु निनयेत्ततः ॥ विडालो मार्जार: । वृषलः = शुद्रः | असंवृतम् = अनावृतप्रदेशम् । श्रव. णेन= शब्दश्रवणेन | दानेन=पात्रीकृतः सन्नित्यर्थः । व्याघ्रपति । मद्यपः स्वैरिणी यावत् स्वैरिणीपतिरेव च । नैव श्राद्धेऽभिवीक्षेरन् । आवापः पाकं कर्तु तण्डुलादीनां पठि ( पिठ ) रादौ प्रक्षेपः तत्प्रभृतिभोजननिष्पत्तिपर्यन्तं यावत् पाकस्थाने भोजनस्थाने ऽन्यत्र वा अन्नादिकं किमपि न वीक्षेर नित्यर्थः । मद्यपादिग्रहणं अप्रशस्तान (मुपलक्षणम् | गौतमः । चाण्डालपतितावक्षणे दुष्टं, तस्मात् परिवृते दद्यात् तिलैर्वा विकिरेत् पडिपावनो वा शमयेत् । यतः दुष्टं दुष्यति अतः प्रच्छन्ने श्राद्धं कुर्यादित्यर्थः । बृहस्पतिः । श्वपाकषण्डपतितश्वानसुकरकुक्कुटान | रजस्वलां च चाण्डालान् श्राद्धे कुर्याञ्च रक्षणम् ॥ परिश्रितेषु दद्याञ्च तिलैर्वा विकिरेन्महीम् । निनयेत् पङ्किमूर्धन्यस्तं दोषं पङ्क्षिपावनः || श्वपाको = निषादः। षण्डो नपुंसकः । एतान् बहिष्कृत्वा रक्षणं कुर्यादिस्यर्थः । निनयेत् = अपहरेत् । (१) षण्डोऽवीरा रजस्वला । इति कमलाकराद्धृतेः पाठः ।