पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्राद्धस्थानादपासनीयपदार्थनिरूपणम् । विष्णुः । संवृतं च श्राद्धं कुर्यात् न रजस्वलां पश्येन श्वानं न विड्वराई न ग्रामकुक्कुटं प्रयत्नात् श्राद्धमजस्य दर्शयेत् । श्राद्धं = श्राद्धस्थान पदार्थान् । अजः =कृष्णच्छागः । ब्रह्मपुराणे । नझादयो न पश्येयुः श्राद्धमेतत् कदा च न | गच्छन्त्येतैस्तु दृष्टानि न पितॄन् न पितामहान् || दृष्टानि हवींषीति तत्कर्मानुष्ठानत्यागिनो गृह्यन्ते । तथा च तत्रैवोकं । | नग्ना=वेदपरित्यागिनः । आदिशब्दात् सर्वेषामेव भूतानां त्रयीसंवरणं यतः । ये वै त्यजन्ति तां मोहात्ते वै नझा इति स्मृताः ॥ बौद्धभावकनिर्ग्रन्थशाक्तजीवककापिलाः | येऽषर्माननुवर्तन्ते ते वै ननादयो जनाः ॥ बौद्धा:- सौगताः । श्रावका: = श्वेतपटाः । निर्मन्था = जैनाः । शाकाः = कौलाः । जीवका=बाईप्पत्याः, चार्वाका इति यावत् । कपिलो = लोकायतैक. देशी तेन प्रणीताः कापिलाः॥ तान् अधर्मान् =अधर्मपरान् | येऽनुवर्तन्त इत्यर्थः । वायुपुराणे | वृथाजटी वृथामुण्डी वृथाननोऽपि यो नरः । महापातकिनो ये च ये च ननादयो नराः ॥ ब्रह्मनांश्च कृतघ्नांश्च नास्तिकान् गुरुतल्पगान् । दस्यूंश्चैव नृशंसांश्च दर्शनेन विवर्जयेत् ॥ ये चान्ये पापकर्माण: सर्वोस्तानपि वर्जयेत् । देवतानामृषीणां च पापवादरताश्च ये || असुरान् यातुधानांश्च दृष्टमेभिर्वजत्यधः । अपमानपविद्धश्च कुक्कुटो ग्रामशूकरः ॥ श्वा चैव हन्ति श्राद्धानि दर्शनादेव सर्वशः । नष्टं भूकृमिभिर्दृष्टं दीर्घरोगिभिरेव च ॥ पतितैर्मलिनैश्चैव न द्रष्टव्यं कदा च न ।