पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरमित्रोदयस्य श्राद्धप्रकाशे- नागरखण्डे । घरटोलूखलोत्थे च तथा शब्दे व्यवस्थितम् । शूद्रस्य वा विशेषेण तच्छ्राद्धं व्यर्थतां व्रजेत् ॥ व्यवस्थितं =कृतम् । इति अपासनीयानि । अथ श्राद्धोपकरणानि । १५२ तत्र कुशस्वरूपमाह हारीतः । अच्छिन्नाग्रान् सपवित्रान् समूलान् कोमलान् शुभान् । पितृदेवजपार्थ च समादद्यात् कुशान् द्विजः ॥ इति । अत्र च विशेषतः कुशलक्षणं तत्प्रतिनिधयस्तदाहरणप्रकार वाहिकप्रकाशोतो शेयः । पिण्डास्तरणकुशेषु विशेषो- वायुपुराणे । रक्षिमात्राः कुशाः शस्ताः पितृतीर्थेन संहनाः । उपमूलं तथा लूनाः पिण्डसंस्तरणे मताः ॥ इति । रत्नि:=बद्धमुष्टिः करः । तिलाचोक्ता- भारते । वर्द्धमानतिलश्राद्धमक्षय्यं मनुरब्रवीत् । सर्वकामैः स यजते यस्ति लैर्यजते पितॄन् || इति । माये । तिला कृष्णानतिश्लक्ष्णानिति । इदं च न तिलान्तरप्रतिषेधार्थ किं तु कृष्णतिलप्रशंसार्थम् । गौरा: कृष्णास्तथारण्यास्तथैव विविधास्तिलाः ॥ पितॄणां तृप्तये सृष्टा इत्याह भगवान् मनुः । इति ब्रह्मपुराणात् । बाराहोऽपेि । जर्तिलास्तु निलाः प्रोक्ताः कृष्णवर्णा वनोद्भवाः । जर्तिलाश्चैव ते ज्ञेया अकृष्टोत्पादिताश्च ये ॥ देवलः । तिलांच विकिरेत्तत्र परितो बन्धयेदजान् । असुरोपहत द्रव्यं तिलैः शुद्धत्यजेन वा ॥ इति । अजेनेत्येकवचनं जात्यपेक्षया विधौ अजानिति बहुवचनोपा- दानात् ।